________________
प्रथमः सर्गः
૪
अभि० स्वाभिलषितसूचकस्य वायोः गन्तव्य दिगभिमुखत्वात् अश्वखुरोत्थिता धूलयो दिलीपस्योष्णीषे सुदक्षिणायाश्च कुटिलकेशेषु च न संलग्नाः ।
"
हिन्दी - मनोरथ की सफलता को सूचित करनेवाले वायु के अनुकूल होने से 'सामने दिशा में चलने से' घोड़ों के खुरों से उठी धूली सुदक्षिणा के केशों और राजा दिलीप की पगड़ी को न छू सकी ||४२ ॥
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥४३॥
सञ्जीविनी -- सरसीषु वीचिविक्षोभशीतलमूमिसंघट्टनेन शीतलं स्वनि :श्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम् । एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम् । अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तो ॥ ४३ ॥
अन्वयः - सरसीषु वोचिविक्षोभशोतलं स्वनिःश्वासानुकारिणम्, अरविन्दानाम्, आमोदम्, उपजिघ्रन्तो, 'तो जग्मतुः ' ।
वाच्य० - सरसीषु वीचिविक्षोभशीतलं स्वनिःश्वासानुकारिणमरविन्दानामामोदमुपजिघ्रद्भ्यां 'ताभ्यां जग्में' ।
व्याख्या - सरसीषु = सरःसु तडागेष्वित्यर्थः । 'कासारः सरसी सरः' इत्यमरः । वीचीनां = तरङ्गाणां, विक्षोभः = संघट्टनं, तेन शीतलः = शीतः, 'सुषीमः शिशिरोजडः । तुषार शीतलः शीतो हिमः सप्तान्यलिंगका' इत्यमरः । तं वीचिविक्षोभशीतलम्, स्वस्य = निजस्य, निःश्वासः = श्वासः, तमनुकर्तुं शीलमस्य तं स्वनिश्वासानुकारिणम्, अरविन्दानां = कमलानाम्, आमोदम् = अतिनिर्ह्रारिणम्, सुगन्धिमित्यर्थः । ' आमोदः सोऽतिनिर्हारी' इत्यमरः, उपजिघ्रन्तौ = घ्राणेन्द्रियेण गृह्णन्तौ तौ जग्मतुः ।
समा० - वीचीनाम् विक्षोभः वोचिविक्षोभ । वीचिविक्षोभेण शीतलः वीचिविक्षोभशीतलः तम् वीचिविक्षोभशीतलम्, स्वस्य निःश्वासः स्वनिःश्वास: स्वनिश्वासम् अनुकतु ं शीलम् अस्य इति स्वनिःश्वासानुकारी तम् स्वनिःश्वासानुकारिणम् । अभि० -- सरःसम्पर्कात् शीतलमत एव स्वनिःश्वासगन्धानुकारिणं कमलगन्धं जिघ्रन्तौ तौ ययतुः ।
·
हिन्दी - - तालाबों की तरंगों में टकराने से शीतल अतएव अपने श्वास वायु का अनुकरण करने वाली कमल की सुगन्धि को सूंघते हुए वे राजा-रानी जा रहे थे ।