________________
४४
रघुवंशमहाकाव्ये ___ अभि०--क्वचित् प्रदेशे आकाशे पंक्ति ववा गच्छतः, अतएव स्तम्भरहितबहिरिमालासदृशान्, मधुराव्यक्तशब्दान् सारसान् वीक्षितुमुपरिकृताननौ सुदक्षिणादिलीपी जग्मतुः।
हिन्दी-किसी स्थान में आकाश में उड़ते हुए तथा प्रिय बोलने वाले हंसों को देखने के लिये ऊपर को मुख उठाए हुए वे चले जा रहे थे, एक पांत में उड़ते हुए हंस ऐसे जान पड़ते थे माने बिना खम्भे ( चौखट ) के ही बन्दनवार टॅगी हो ॥४१॥
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥ सञ्जीविनी--प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोर सिद्धिसूचकस्य पवनस्यानुकलत्वाद् गन्तव्यदिगभिमुखत्वात् । तुरगोत्कीर्णे रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तो तथोक्तौ। 'शिरसा वेष्टनशोभिना सुत।' इति वक्ष्यति ॥४२॥
अन्वयः--प्रार्थनासिद्धिशंसिनः, पवनस्य, अनकलत्वात्,तुरगोत्कीर्णः, रजोभिः अस्पृष्टालकवेष्टनो, 'तो जग्मतुः ।
वाच्य--प्रार्थनासिद्धिशंसिनः पवनस्यानुकूलत्वात् तुरगोत्कीर्णैः रजोभिः अस्पृष्टालकवेष्टनाभ्यां ताभ्यां जग्मे । ___ व्याख्या--प्रार्थनायाः = मनोरथस्य, सिद्धिः = सफलता, इति प्रार्थनासिद्धिः, तां शंसितुं = सूचयितुं शीलं यस्य स तस्य प्रार्थनासिद्धिशंसिनः, पुनातीति पवनस्तस्य पवनस्य = वायोः, अनुकूलत्वात् = सम्मुखत्वात् गन्तव्यदिगभिमुखत्वादित्यर्थः, तुरगः- अश्वः, उत्कीर्णानि == उरिक्षप्तानि तः, तुरगोत्कीर्णः, रजोभिः= धूलिभिः, अस्पृष्टाः = असंपृष्टाः, अलकाः= केशाः सुदक्षिणायाः, वेष्टनम् = उष्णीषं च दिलीपस्य, ययोस्ती अस्पृष्टालकवेष्टनी, तो जग्मतुः ।
समा०-प्रार्थनायाः सिद्धिः प्रार्थनासिद्धिः प्रार्थनासिद्धि शंसितुम् शीलम् यस्य सः प्रार्थनासिद्धिशंसी, तस्य प्रार्थनासिद्धिशंसिनः । पुनाति इति पवन: तस्य पवनस्य, अनुकूलस्य भावः अनुकूलत्वम् तस्मात् अनुकूलत्वात्, तुरगैः उत्कीर्णानि तुरगोत्कीर्णानि तैः तुरगोत्कीर्णैः। न स्पृष्टाः अस्पृष्टाः, अस्पृष्टाः अलकाः वेष्टनम् च ययोः तो अस्पृष्टालकवेष्टनी।