________________
प्रथमः सर्गः अभि०-विश्वासात् रथमार्गसमीपे स्थितेषु कौतुकाद् रथासक्तलोचनेषु मृगमिथुनेषु, अन्योन्यस्य नेत्रसादृश्यं पश्यन्ती सुदक्षिणादिलीपो जग्मतुरिति ।
हिन्दी--रथ के मार्ग को छोड़कर पास से रथ को एक टक देखते हुए, मृगों के जोड़े में, सुदक्षिणा दिलीप, एक दूसरे के नेत्रों की समानता को देखते हुए, आश्रम को गये ॥४०॥
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भ तोरणम्रजम् ।
सारसैः कलनिर्बादैः क्वचिदुन्नमिताननौ ॥४१॥ सञ्जीविनी-श्रेणीबन्धात्पङक्तिबन्धनादेतोरस्तम्भामाधारस्तम्भरहिताम् । तोरणं बहिरिम् । 'तोरणोऽस्त्री बहिरिम्' इत्यमरः। तत्र या स्रग्विरच्यते तां' तोरणम्र वितन्वद्भिः । कुर्वद्भिरिवेत्यर्थः । उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभादेऽपि गम्योत्प्रेक्षेयम् । कलनिहदिरव्यक्तमधुरध्वनिभिः सारसः पक्षिविशेषः करणः। क्वचिदुन्नमिताननी । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः इति यादवः ॥४१॥ __ अन्वयः-श्रेणीबन्धात्, अस्तम्मा, तोरणनजं, वितन्वद्भिः, कलनिहविः, सारसः, क्वचिद्, उन्नमिताननो, 'तो जग्मतुः ।
वाच्य०--सारसैः क्वचिदुन्नमिताननाभ्यां ताभ्यां जग्मे ।
व्याख्या--श्रेण्याः= पङक्ते, बन्धः=बन्धनं, तस्मात्, श्रेणीबन्धात् = हेतोः, न विद्यते स्तम्यो यस्याः सा, अस्तम्भा, ताम्, आस्तम्भाम् = अधारस्तम्भरहितां, तोरणस्य = बहिर्वारस्य, 'तोरणोऽस्त्री बहिरिम् इत्यमरः' या स्रक =माला, तां तोरणस्रजं वितन्वद्भिः= कुर्वद्भिः, 'इवेति शेषः' कल:= मधुरास्फुटः निर्हादः= ध्वनिा, येषान्ते तैः, कलनिर्दिः सारसः= पक्षिविशेषः करणः' क्वचित् =कुत्रचित् स्थान, उन्नमिते = ऊध्वंकृते,आनने = मुखे =याभ्यां तो, उन्नमिताननी 'वक्त्रास्ये वदनं तुण्डमावनं लपनं मुखम्' इत्यमरः तो जग्मतुः। ___ समा०--श्रेण्याः बन्धः श्रेणीबन्धः तस्मात् श्रेणीबन्धात् । न विद्यते स्तम्भः यस्याः सा अस्तम्भा ताम् अस्तम्भाम् ।तोरणस्य सक् तोरणस्रक ताम् तोरणस्रजम् । कलः निर्बादः येषाम् ते कलनिर्वादाः तः कलनि दैः । उन्नमिते आनने याभ्याम् तो उन्नमिताननी।