________________
रघुवंशमहाकाव्ये षड्ज स्वर जैसी, मधुर मनोहर वाणी को सुनते हुए राजा दिलीप और सुदक्षिणा चले ॥३६॥
परस्पराक्षिसादृश्यमदूरोज्झितवम॑सु।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥ सञ्जीविनी--विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वत्म यस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धा सञ्जिता दृष्टिर्ने यस्तेषु । 'दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि' इति हलायुधः । कौतुकवशाद्रथासक्तदृष्टिवित्यर्थः । मृग्यश्च मृगाश्च मृगाः 'पुमान्स्त्रिया' इत्येकशेषः । तेषां द्वन्द्वेषु मिथुनेषु । 'स्त्रीपुंसौ मिथुनं द्वन्द्वम्' इत्यमरः । परस्पराक्षणां सादृश्यं पश्यन्तौ । द्वन्द्वशब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥४०॥ ___ अन्वय-अदूरोज्झितवम॑सु स्यन्दनाबद्धदृष्टिषु, मृगद्वन्द्वष, परस्पराक्षिसावृश्य, पश्यन्ती, 'तो जग्मतुः'।।
वाच्य--अदूरोज्झितवम॑सु स्यन्दनाबद्धदृष्टिषु मृगद्वन्द्वेषु परस्पराक्षिसादृश्यं पश्यद्भ्यां, 'ताभ्यां जग्मे'। ___व्याख्या--अदूरं = समीपं, यथा स्यात्तथा, उज्झितं = त्यक्तं, वर्त्म = मार्गो यस्तानि, अदूरोज्झितवानि तेषु तथोक्तेष स्यन्दने = रथे, आसमन्तात्' बद्धाः संलग्ना:, दृष्टयः= नेत्राणि यैस्तानि, स्यन्दनाबद्धदष्टीनि तेषु स्यन्दनाबद्धदृष्टिषु, मृग्यः= हरिण्यश्च मृगाः=हरिणाश्चेति मुगा।, मृगाणां, द्वन्द्वानि = मिथुनानि, तेषु, मृगद्वन्द्वेषु, सदृशस्य भावः, सादृश्यम्, अक्षणां= नेत्राणां, सादृश्यं = सरूपता, इति, अक्षिसादृश्यं, परस्परस्य = अन्योन्यस्य, अक्षिसादृश्यं तत्, परस्पराक्षिसादृश्यं, 'दिलीपो मृगीषु सुदक्षिणाक्षिसादृश्य, सुदक्षिणा च मृगेषु दिलीपाक्षिसादृश्यमित्यर्थः, पश्यन्ती= अवलोकयन्ती, तो जग्मतुः । ____ समा०--अदूरम् उज्झितम् वर्त्म यः तानि अदूरोज्झितवानि, तेषु अदूरोज्झितवमसु । स्यन्दने आसमन्तात् बद्धा दृष्टि: यैः तानि स्यन्दनाबद्धदृष्टीनि तेषु स्यन्दनाबद्धदृष्टिषु । मृग्यः च मृगाः च मृगाः, मृगाणाम् द्वन्द्वानि मृगद्वन्द्वानि, तेषु मृगद्वन्द्वेषु । सदृशस्य भावः सादृश्यम्, अक्षणाम् सादृश्यम् अक्षिसादृश्यम्, परस्परस्य अक्षिसादृश्यम् इति परस्पराक्षिसादृश्यम् तत् परस्पराक्षिसादृश्यम् ।