________________
प्रथमः सर्गः सञ्जीविनी-रथनेमिस्वनोन्मुखैः । मेघध्वनिशङ्कयोन्नमितमुखै रित्यर्थः । शिखण्डिभिर्मयूरैद्विधा भिन्ना। शुद्धविकृतभेदेनाविष्कृतावस्थायां च्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते । अत एवाह-षड्जसंवादिनीरिति । षड्भ्यः स्थानेभ्यो जातः षड्जः । तदुक्तम्'नासाकण्ठमुरस्तालजिह्वादन्तांश्च संस्पशन् । षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः॥' स च तन्त्रीकण्ठजन्मा स्वरविशेषः । 'निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥' इत्यमरः । षड्जेन संवादिनीः सदशीः। तदुक्तं मातङ्गेन--'षड्ज मयूरो वदति' इति मनोभिरामा मनसः प्रियाः । के मूनि कायन्ति ध्वनन्तीति केका मयूरवाण्यः । 'केका वाणी मयूरस्य' इत्यमरः । ताः केकाः शृण्वन्तौ । इति श्लोकार्थः ॥३९॥
अन्वयः-रथनेमिस्वनोन्मुखः, शिखण्डिभिः, द्विधा, भिन्नाः, षड्जसंवादिनीः, मनोभिरामाः, केकाः, शृण्वन्तो, 'तो जग्मतुः' ।
वाच्य०--मनोभिरामा: केकाः शण्वभ्यां ताभ्यां जग्मे ।
व्याख्या--रथस्य = स्यन्दनस्य, नेमी= चक्रप्रान्ती 'नेमिश्चक्रप्रान्ते स्त्रियामपीति' कोषः, तयोः, स्वनः = निनादस्तेन, उन्मुखाः=ऊनिनाः, तैस्तथोक्तः, शिखण्डिभिः = मयूरः, द्विधा= शुद्धविकृतभेदेन द्विप्रकाराः, भिन्नाः= भेदमापन्नाः, षड्भ्यः स्थानेभ्यः, जातः= उत्पन्नः इति षड्जः, षड्जेन संवादिनी:= सदृशीः, इति षड्जसंवादिनीः, मनसः=चित्तस्य, अभिरामाः प्रियाः, इति मनोभिरामाः, के = मूर्धनि, कायन्ति = ध्वनन्तीति केकाः= मयूरवाण्यस्ताः केकाः, शृण्वन्ती= आकर्णयन्तौ, तो दम्पती जग्मतुः। ___ समा०--रथस्य नेमो रथने मी रथनेम्योः स्वनः रथनेमिस्वनः, उद्गतम् मुखम् येषाम् ते उन्मुखाः, रथनेमिस्वनेन उन्मुखाः रथनेमिस्वनोन्मुखाः, तैः रथनेमिस्वनोन्मुखैः । षड्भ्यः जातः षड्जः षड्जेन संवादिन्यः इति षड्जसंवादिन्यः, ताः षड्जसंवादिनीः। के कायन्ति इति केकाः, ता केकाः।
अभि०-रथचक्रप्रान्तोत्थितं निस्वनं मेघगर्जनं मत्वा, ऊध्र्वमुखानां मयूराणां कर्णप्रियं केकां शृण्वन्तो जग्मतुः ।
हिन्दी--रथ के पहिये की गड़गड़ाहट सुनकर 'मेघों के गर्जन की भ्रान्ति से' ऊपर को मुख किये हुए मोरों की, शुद्ध और विकृत भेद से दो प्रकार की,