________________
४०
रघुवंशमहाकाव्ये सञ्जीविनी–पुनः कथंभूती । सुखः शीतलत्वात्प्रियः स्पर्शो येषां तैः । शाल. निर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः। 'शाल: सर्जतरुः स्मृतः' इति शाश्वता। उत्किरन्ति विक्षिपन्तीत्युत्किराः 'इगुपधः' इत्यादिना किरतेः कप्रत्ययः । पुष्परेणूनामुत्किरास्तै राधूता मान्द्यादीषत्कम्पिता वनराजयो यस्ततिः सेव्यमानी।।
अन्वयः--सुखस्पर्शः शालनिर्यासगन्धिभिः, पुष्परेणू त्किरैः, आपूतवनराजिभिः, बातः, सेव्यमानी, 'तो जग्मतुः ।
वाच्य०---सुखस्पर्शः......वातेः, सेव्यमानाभ्यां ताभ्यां जग्मे । व्याख्या--सुखः = सुखप्रदः, प्रिय इत्यर्थः, स्पर्शः=स्पर्शनमालिङ्गनं येषान्ते तः सुखस्पर्शः, शालेभ्यः = सर्जतरुभ्यः निर्यासा:= निस्यन्दाः, तेषां गन्धः=सुरभिः अस्ति, येषु ते तेः, शालनिर्यासगन्धिभिः, उकिरन्ति =विक्षिपन्ति, इत्युत्किरा:, पुष्पाणां=कुसुमानां रेणवः = धूलयः, इति पुष्परेणवस्तेषामुत्किरास्तैः पुष्परेणूकिरः, आङ = ईषत्, धूताः= कम्पिता:, वनस्य = काननस्य, राजयः= पङक्तयो यस्तः, आधुतवनराजिभिः, वातः=पवनः सेव्यमानौपरिचर्यमाणो. तौ दम्पती जग्मतुरिति पूर्वेण संबन्धः।
समा०-सुखः स्पर्शः येषाम् ते सुखस्पर्शाः, ते. सुखस्पर्शः । शालेभ्यः निर्यासाः शालनिर्यासा: शालनिर्यासानाम् गन्धः शालनिर्यासगन्धः, शालनिर्यासगन्धः अस्ति येषु ते शालनिर्यासगन्धिनः, तेः शालनिर्यासगन्धिभिः। उरिकरन्ति इति उस्किराः, पुष्पाणाम् रेणवः पुष्परेणव: पुष्परेणूनाम् उत्किराः पुष्परेणूत्किराः, तैः पुष्परेणूत्किरः। आ ईषत् धूताः इति आधूताः वनानां राजयः वनराजयः आधूताः वनराजयः यैः ते आधूतवनराजयः, तैः आधूतवनराजिभिः ।
अभि०-शीतलमन्दसुगन्धिभिः प्रियस्पर्शः शुभसूचकैः पवनः सेव्यमानी सुदक्षिणादिलीपी जग्मतुः ।
हिन्दी-प्रियस्पर्शवाले, शालके गोन्द की सुगन्धियुक्त फूलों के पराग को उड़ानेवाले और वनवृक्षों की पंक्ति को धीरे २ कॅपानेवाले पवन से सेवा किये गये वे दोनों चले जा रहे थे ॥३८॥
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः। षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥३६॥