________________
प्रथमः सर्गः
मा भूदाश्रमपीडेति परिमेयपुरःसरौ । अनुभावविशेषात्तु सेनापरिवृताविव ||३७||
३६
सञ्जीविनी -- पुनः किंभूतौ दम्पती | आश्रमपीडा मा भून्मास्त्विति हेतोः । 'माङि लुङ' इत्याशीरर्थे लुङ । 'न माङ्योगे' इत्यडागमनिषेधः । परिमेयपुर:सरी परिमितपरिचरौ । अनुभावविशेषात्तु तेजोविशेषात्सेनापरिवृताविव स्थिती ॥ अन्वयः - आश्रमपीडा, मा भत्, इति, परिमेयपुरःसरो, अनुभावविशेषात्, तु, सेनापरिवृतो, इव, 'स्थितौ' जग्मतुः ।
वाच्य० – आश्रमपीडया मा भावीति परिमेयपुरःसराभ्याम्, अनुभावविशेषात्तु, सेनापरिवृताभ्यामिव ताभ्यां जग्मे ।
"
व्याख्या— आश्रमस्य = वसिष्ठाश्रमस्य आश्रमवासिजनस्येत्यर्थः, पीडा = बाधा, कष्टं, मा भूत् = न भवतु, इति = हेतोः पुरः = अग्रे, सरन्ति = गच्छन्तीति पुरःसराः, परिमातुं योग्याः परिमेया: = परिमिताः पुरःसराः अनुचराः, यस्तो परिमेयपुरःसरौ, अनुभावस्य = प्रभावस्य, तेजस इत्यर्थः विशेषः = अतिशयस्तस्मात् प्रभावविशेषात् तु = किन्तु, सेनया = सैन्येन, परिवृतौ = अन्विती; इति सेनापरिवृती, 'ध्वजिनी वाहिनी सेना पूतनाऽनीकिनी चमूः । वरूथिनी बल सैन्यम्' इत्यमरः । इव = यथा, 'स्थितो जग्मतुरिति' पूर्वेणान्वयः ।
समा०-- आश्रमस्य पीडा आश्रमपीडा । पुरः सरन्ति इति पुरःसराः, परिमातुम् योग्याः परिमेयाः, परिमेयाः पुरःसराः ययोः तो परिमेयपुरःसरी । अनुभावस्य विशेषः अनुभावविशेषः तस्मात् अनुभावविशेषात्, परितः वृतौ परिवृतो सेनयापरिवृतौ सेनापरिवृतौ ।
अभि० - सेनया सह गमने वसिष्ठाश्रमस्य पीडा भविष्यतीतिहेतोः, त्रिचतु:सेवकान्वितावपि सुदक्षिणा दिलीपौ प्रतापातिशयेन सेनाव्याप्ती, इव ययतुः ।
हिन्दी -- आश्रम के निवासी जनों के कार्य में बाधा न हो, इसलिये राजा दिलीप ने परिमित 'तीन चार' सेवकों को ही साथ में लिया, किन्तु अपने प्रताप व तेज से वे ऐसे जान पड़ते थे, मानो बड़ी भारी सेना से घिरे हों ||३७|| सेव्यमानौ सुखस्पर्शेः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ||३८||