________________
रघुवंशमहाकाव्य मेघ विद्युदरावताविव । आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः । इरा भाप । 'हरा भूवाक्सुराप्सु स्यात्' इत्यमरः। इरावान्समुद्रः तत्र भव ऐरावतोऽभ्रमातङ्गः। 'ऐरावतोऽभ्रमातङ्गरावणाभ्रमुवल्लभाः' इत्यमरः। 'अभ्रमातङ्गस्वाच्चाभ्रस्थरूपत्वात् इति क्षीरस्वामी । अत एव मेघारोहणं विद्युत्साहचर्य च घटते । किंच विद्युत ऐरावतसाहचर्यादेवैरावती संज्ञा । ऐरावतस्य स्त्र्यरावतीति क्षीरस्वामी। तस्मात्सुष्ठुक्तं विद्युदै रावतावितीति । एकरथारोहणोक्त्या कार्यसिद्धिबीजं दम्पत्योरत्यन्तसौमनस्यं सूचयति ॥३६॥
अन्वयः-स्निग्धगम्भीरनिर्घोषम्, एकं, स्यन्दनं, प्रावृषण्यं, पयोवाई, विद्युबराबतो, इव, आस्थितो, 'तो जग्मतुरिति पूर्वेण संबन्धः' ।
वाच्य०--स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनं, प्रावृषेण्यं पयोवाहं विद्युदैरावताभ्याम् इव, आस्थिताभ्यां ताभ्यां जग्मे ।।
व्याख्या--स्निग्धः= मधुरः,गम्भीरः = गभीरा, निर्घोषः= निर्बादः ध्वनिरिस्यर्थः, यस्य स तं स्विग्धगम्भीरनिर्घोषं, 'स्वाननिर्घोषनिदिनादनिस्वाननिस्वनाः' इत्यमरा। एकं = केवलम् 'एके मुख्यान्यकेवला:' इत्यमरः । स्यन्दनं = रथं, प्रावृषि = वर्षाकाले भव: प्रावृषेण्यस्तं प्रावृषेण्यं, पयांसि वहतीति पयोवाहस्तं पयोवाहं= मेघ, विद्युत् =तडित् च 'तडित्सौदामिनीविद्युद्' इत्यमरः। इराः= आपः,सन्त्यस्मिन्निति इरावान् = समुद्रस्तत्र भव ऐरावतः= अभ्रमातङ्गश्चेति विद्युदरावती, इव
= यथा, आस्थिती= आरुढी, सुदक्षिणादिलीपो जग्मतुः। ___ समा०--स्निग्धश्च असौ गम्भीरश्च स्निग्धगम्भीरः, स्निग्धगम्भीरः निर्घोषः यस्य सः स्निग्धगम्भीरनिर्घोषः तम् स्निग्धगम्भीरनिर्घोषम् । प्रावृषि भवः प्रावषेण्यः तम् प्रावषेण्यम् । पयांसि वहति इति पयोवाहः तम् पयोवाहम् । विशेषण धोतते इति विद्युत् । इराः 'जलानि' सन्ति अस्मिन् इति इरावान, इरावत अपत्यम् ऐरावतः, विद्युत् च ऐरावतश्च विद्युदैरावती ।
अभि०--एक रथमारूढी सुदक्षिणादिलीपी, वर्षाकालिकमेधारूढो विद्युदरावती यथा, वसिष्ठाश्रमं जग्मतुः।।
हिन्दी--मधुर एवं गंभीर घरघराहट वाले एक ही रथ पर चढ़कर सुदक्षिणादिलीप इस प्रकार चले जा रहे थे, जैसे वर्षा के बादल पर बिजली और ऐरावत इन्द्र का हाथी' चले जारहे हों ॥३६॥