________________
प्रथमः सर्गः
३७
सञ्जीविनी -- अथ धुरोऽवतारानन्तरं पुत्रकाम्ययात्मनः पुत्रेच्छया । 'काम्सचच' इति पुत्रशब्दात्काम्यच्प्रत्ययः । ' अप्रत्ययात्' इति पुत्रकाम्यधातोरकारप्रत्ययः । ततष्टाप्, तया । तो दंपती जायापती । राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः । प्रयतौ पूतौ विधातारं ब्रह्माणमभ्यर्च्य । स खलु पुत्राथिभिरुपास्यते' इति मान्त्रिकाः । गुरोः कुलगुरोर्वसिष्ठस्याश्रमं जग्मतुः । पुत्रप्राप्युपायापेक्षयेति शेषः ॥ ३५ ॥
I
अन्वयः -- अथ, पुत्रकाम्यया प्रयतौ तौ दम्पती, विधातारम्, अभ्यर्च्य, गुरो:, वसिष्ठस्य, आश्रमं जग्मतुः ।
वाच्य०-- - पुत्रकाम्यया प्रयताभ्यां ताभ्याम्, विधातारमभ्यच्यं, गुरोः वसिष्ठस्वाश्रमो जग्मे |
व्याख्या[ -- अथ = अनन्तरं = मंत्रिषु राज्यभारस्थापनानन्तरमित्यर्थः, आत्मनः पुत्रमिच्छतीति पुत्रकाम्यति, पुत्रकाम्यतीति पुत्रकाम्या, तथा पुत्रकाम्यया = पुत्रेच्छया, प्रयतौ = पूतौ 'पवित्रः प्रयतः पूतः' इत्यमरः, स च सा चेति तौ = सुदक्षिणादिलोपी, जाया च पतिश्चेति दम्पती = जायापती, विधातारं = ब्रह्माणम्, अभ्यर्च्य = सम्पूज्य, गुरोः = कुलगुरोः, वसिष्ठस्य = महर्षेः, आश्रमं = वासस्थानं, जग्मतुः = ययतुः । पुत्रप्राप्त्युपायज्ञानायेति भावः ॥
समा०-- आत्मनः पुत्रम् इच्छति पुत्रकाम्यति, पुत्रकाम्यति इति पुत्रकाम्या तथा पुत्रकाम्यया । स च सा च तौ । जाया च पतिश्च दम्पती । विदधाति इति विधाता तम् विधातारम् ।
अभि० - पुत्रप्राप्त्यु पायज्ञानाय ब्रह्माणं सम्पूज्य सुदक्षिणा दिलीपौ स्वकुलगुरोः वसिष्ठस्याश्रमं जग्मतुः ।
,
हिन्दी -- मंत्रियों को राज्य का भार सौंपकर राजा दिलीप तथा सुदक्षिणाने पवित्र होकर पुत्र की कामना से ब्रह्माजी की पूजा करके अपने कुलगुरु वसिष्ठजी के आश्रम की ओर प्रस्थान किया ॥ ३५॥
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ||३६||
सञ्जीविनी - स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम् । प्रावृषि भवः प्रावृषेण्यः । प्रावृष एण्यः' इत्येण्यप्रत्ययः । तं प्रावृषेण्यं पयोवाहं