________________
रघुवंशमहाकाव्ये ग्रामेष्वात्मविसृष्टेषु यूपचिह्नषु यज्वनाम् । __ अमोघाः प्रतिगृह्णन्तावानुपदमाशिषः ॥४४॥ सञ्जीविनी-आत्मविसृष्टेषु स्वदत्तेषु । यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः । यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम्। 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोडर्वनिप्' इति इवनिप्रत्ययः । आशिषः आशीर्वादान् । अर्घः पूजाविधिः। तदर्थं द्रव्यमय॑म् । 'पादाभ्यां च' इति यत्प्रत्ययः । 'षट् तु त्रिष्वय॑मर्धार्थे पाचं पादाय वारिणि' इत्यमरः । अय॑स्यानुपदमन्वक् । अर्ध्यस्वीकारानन्तरमित्यर्थः । प्रतिगृह्णन्ती स्वीकुर्वन्ती। पदस्य पश्चादनुपदम् । पश्चादर्थेऽव्ययीभावः । 'अन्वगन्वक्षमनुगेऽ नुपदं क्लीबमव्ययम्' इत्यमरः ॥४४॥ ___ अन्वयः-आत्मविसृष्टेष, यूपचिहष, ग्रामेषु, यज्वनाम्, अमोघाः, आशिषः, अानुपवं, प्रतिगृह्णन्तो, 'तौ जग्मतुः'।
वाच्य०--आत्मविसृष्टेषु, यूपचिह्नेषु, ग्रामेषु, यज्वनाममोघाः, आशिषः अानुपदं प्रतिगृह्णयां, 'ताभ्यां जग्मे । ___ व्याख्या-आत्मना= स्वेन, दिलीपेनेत्यर्थः 'विसृष्टाः = दत्तास्तेषु आत्मविसष्टेषु, यूपाः = स्तम्भाः, यज्ञार्थसंस्कृतदारुविशेषः पशुबन्धायेत्यर्थः, एव चिह्नानि = लक्षणानि येषां ते तेषु यूपचिह्नषु, 'चिह्न लक्ष्म च लक्षणम्' इत्यमरः। ग्रामेषु = संव. सथेषु, 'समौ संवसथग्रामो' इत्यमरः। यज्वनां= विधिनेष्टवतां, याज्ञिकानामित्यर्थः, अमोघा= सफलाः, आशिष:= आशीर्वादान, पदस्य पश्चादनुपदम्, अय॑स्य% पूजाविधेः, अनुपदं = पश्चात्, अनन्तरमित्यर्थः, प्रतिगृह्णन्तौ स्वीकुर्वन्तो, 'तो जग्मतुः'।
समा०-आत्मना विसृष्टाः आत्मविसृष्टाः तेषु आत्मविसृष्टेषु, यूपा एव चिह्नानि येषाम् ते यूपचिह्नाः, तेषु यूपचिह्नषु, न मोघाः अमोघाः, पदस्य पश्चादनुपदम्, अर्घाथं द्रव्यम् अयम् अय॑स्य अनुपदम् अानुपदम् ।
अभि०--आत्मना विविधेषु यज्ञेषु याज्ञिकविप्रेभ्यो दत्तेषु, यूपचिह्नितेषु ग्रामेषु तत्रत्यविप्राणां सफलाशीर्वादान् पूजाविधेरनन्तरं स्वीकुर्वन्तो 'ती दम्पती जग्मतुः।
हिन्दी--राजा दिलीप से ब्राह्मणों को दान में दिये गए और जिनमें यज्ञ के स्तम्भ गड़े हुए थे, ऐसे गांवों में अर्घ्य भेंट करने के पश्चात् याज्ञिक ब्राह्मणों के सफल आशीर्वाद को लेते हुए, सुदक्षिणा दिलीप, चले जा रहे थे ॥४४॥