________________
दशमः सर्गः
३६१
उत्पत्ति से पहले ही राजा का भानन्द हो गया था, अतः कवि ने प्रानन्द को ज्येष्ठ कहा है ॥७८॥
स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ||७९||
संजी० - स्वाभाविकमिति । तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया । हविर्भुजामग्नीनां सहजं तेजो हविषाऽऽज्यादिकेनेव । मुमूर्च्छ ववृधे । निसर्गसंस्काराभ्यां विनीता इत्यर्थः ॥ ७९ ॥
-
अन्वयः- - तेषां स्वभाविकं विनोतत्वं विनयकर्मणा हविर्भुजां सहजं तेजः हविषा इव मुमूर्छ ।
"
व्याख्या - तेषां = रामादिकुमाराणां स्वो भावः स्वभावेन जातं स्वाभाविकं = नैसर्गिकं सहजमित्यर्थः व्यनायि इति विनीतः, विनीतस्य = सुशिक्षितस्य भावः विनीतत्वं = सुशिक्षितत्वं विनयस्य कर्म विनयकर्म तेन विनयकर्मणो - शिक्षणेन हविः भुञ्जते इति हविर्भुजस्तेषां हविर्भुजाम् अग्नीनां सह जातमिति सहजं - स्वाभाविकं तेजः दीप्तिः हूयते इति हविः तेन हविषा = होतव्येन श्राज्यादिना इब = यथा मुमूर्छ - ववृधे प्रजज्वाल, इत्यर्थः । ते स्वाभाविक संस्काराभ्यां बिनीताः ।
समासः– विनयस्य कर्म विनयकर्म, तेन विनयकर्मणा ।
हिन्दी - उन चारों कुमारों को स्वाभाविक नम्रता, विनय आदि की अच्छी शिक्षा से उसी प्रकार " और अधिक बढ़ गई, जिस प्रकार श्रग्मि का स्वाभाविक घी की आहुति से बढ़ जाता है ।। ७९ ।।
परस्पराविरुद्वास्ते तद्रधोरनघं कुलम् ।
अलमुद्दयोतयामासुर्दे वारण्यमिवर्तवः ॥ ८० ॥
संजी० -- परस्परेति । परस्पराविरुद्धा अविद्विष्टाः । सौभ्रात्रगुरणवन्त इत्यर्थः । कुमाराः । तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव । सहजविरोधानामप्युतूनां सहावस्थान संभावनार्थं देवविशेषणम् । अलमत्यन्तम् 1 उद्द्योतयमासुः प्रकाशयामासुः 1 सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ||८०||