________________
३६०
रघुवंशमहाकाव्ये
प्रदाश्च ते उपचाराः=कृत्याः इति मंगलोपचाराः सन्तः - पुत्रोत्पत्तौ श्रावश्यकाः ये मंगलोपचाराः इति सन्मंगलोपचारास्तेषां सन्मंगलोपचाराणाम् श्रादिः = प्रथमा चासौ रचना = क्रिया चेति प्रादिरचना अभूत् = श्रासीत् ।
समासः - मंगलाश्च ते उपचाराः मंगलोपचाराः, सन्तश्च ते मंगलोपचाराश्च सन्मंगलोपचारास्तेषां सन्मंगलोपचाराणाम् 1 शादिः चासौ रचना च
श्रादिरचना |
हिन्दी - राजा दशरथ के राजभवन में " प्रकाश से" कल्पवृक्ष के स्वर्गीय फूलों की "जो" वर्षा हुई वह वर्षा ही पुत्रजन्म के समय आवश्यक मांगलिक कार्यों का शुभारम्भ हुआ था ॥७७॥
कुमाराः कृतसंस्कारास्ते धात्री स्तन्यपायिनः । मानन्देनाप्रजेनेव समं ववृधिरे पितुः ||८||
संजी० - कुमारा इति । कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातृणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे । कुमारवृद्धया पिता महान्तमानन्दमवापेत्यर्थः । कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ||७८ || अन्वयः - कृतसंस्काराः धात्रीस्तन्यपायिनः ते कुमाराः अग्रजेन इव पितुः आनन्देन समं ववृधिरे ।
व्याख्या
६.
कृताः - विहिताः संस्काराः संस्क्रियन्ते ये ते संस्काराः - जातकर्मादयः येषां ते कृतसंस्काराः, स्तने भवानि स्तन्यानि, धात्रीणाम् - उपमातृणां स्तन्यानि - दुग्धानि पिबन्ति तच्छीला:, इति धात्रीस्तन्यपायिनः, ते पूर्वोक्ताः कौ= पृथिव्यां मारयन्ति दुष्टान् इति कुमाराः = शिशवः श्रग्रे - प्रथमं जातः प्रप्रजस्तेन = ज्येष्ठेन इव - यथा स्थितेन पितुः - जनकस्य दशरथस्य श्रानन्दस्तेन श्रानन्देन - हर्षेण समं = साकं ववृधिरे-वर्धन्ते स्म ।
समासः - कृताः संस्काराः येषां ते कृतसंस्काराः । धात्रीणां स्तन्यानि धात्रीस्तन्यानि तानि पिबन्तीति धात्रीस्तन्यपायिनः । अग्रे जातः, अग्रजस्तेन श्रग्रजेन ।
हिन्दी - जातसंस्कार श्रादि से संस्कृत तथा धाय का दूध पीने वाले, वे कुमार बड़े भाई के समान वर्तमान, पिता के मानन्द के साथ २ बढ़ने लगे । कुमारों की
-