________________
दशमः सर्गः
३८६
"
व्याख्या – पुन्नाम नरकात् त्रायते इति पुत्रः । पुत्रो जातोऽस्येति पुत्री, तस्य पुत्रिणः - पुत्रवतः तस्य राज्ञो दशरथस्य प्रवेष्टुं योग्याः प्रवेश्याः पुत्रस्य जन्म पुत्रजन्म, पुत्रजन्मनि-सुतोत्पत्तिसमये प्रवेश्या:- प्रवेशयितव्याः = वादनीयाः इति पुत्रजन्मप्रवेश्यास्तेषां पुत्रजन्मप्रवेश्यानां तूर्यन्ते ताड्यन्ते इति तूर्यास्तेषां तूर्याणां=वाद्यानाम्, आरम्भम् उपमम् प्रथमम् = आदौ दिवि स्वर्गे दुन्दु इति शब्देन भान्तीति दुन्दुभयः, भेर्य्यः चक्रुः कृतवन्तः । साक्षात्पित्रपेक्षया देवा एवाधिकं प्रसन्नाः सन्तुष्टाश्च जाता इत्यर्थः ।
समास:- — पुत्रस्य जन्म पुत्रजन्म, पुत्रजन्मनि प्रवेश्याः इति पुत्रजन्मप्रवेश्य - स्तेषां पुत्रजन्मप्रवेश्यानाम् । देवानां दन्दुभयः देवदुन्दुभयः । पुत्रा अस्य सन्तीति पुत्री, तस्य ।
हिन्दी - पुत्रवान् राजा दशरथ के, पुत्रजन्म के समय ( पुत्र के जन्म के उपलक्ष में ) में बजाने योग्य बाजों के बजने का आरम्भ पहले-पहल स्वर्गदुन्दुभि ( नगाड़ा ढोल ) ने किया । अर्थात् राजा के घर पीछे बाजे बजे, लेकिन स्वर्गं में पहले ही नगाड़े बज उठे । याने देवता सबसे अधिक प्रसन्न हुए रामजन्म होने पर ॥ ७६ ॥
संतानकमयो वृष्टिर्भवने चास्य पेतुषी । सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत् ॥७७৷৷
संजी० - संतानकेति । अस्य राज्ञो भवने संतानकानां कल्पवृक्षकुसुमानां विकारः संतानकमयी वृष्टिश्च पेतुषी पपात । 'क्वसुश्च' (पा. ३ | ३१०७ ) इति क्वसुप्रत्ययः । ' उगितश्च' ( पा. ४।१६ ) इति ङीप् । सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाऽभवत् ॥७७॥
अन्वयः :- श्रस्य भवने सन्तानकमयी वृष्टिः पेतुर्षा, सा एव सम्मंगलोपचाराणाम् आदिरचना अभवत् ।
व्याख्या - अस्य राज्ञा दशरथस्य भवने - प्रासादे = गृहे सम्यक् तनोति = पुष्णातीति सन्तानः सम्यक् तन्यन्ते पुष्पाणि यस्मिन् इति सन्तानः सन्तान एव संतानकः–कल्पवृक्षः । सन्तानकानां कल्पवृक्षपुष्पाणां विकारः सन्तानकमयी = कल्पवृक्षपुष्पमयी वृष्टिः- वर्षणं पेतुषी पपात, सा - वृष्टिः एव, मंगलाः मांगल्य
=