________________
रघुवंशमहाकाव्ये पतिताः । रामोदये सति तद्वध्यस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुनिमित्तमभूदित्यर्थः ॥७५॥
अन्वयः--तत्क्षण राक्षसश्रियः अश्रुबिन्दवः दशाननकिरीटेभ्यः मणिव्याजेन पृथिव्यां पर्यस्ताः।
व्याख्या-स चासौ क्षणश्च तत्क्षणः, तं तत्क्षणं-तस्मिन् क्षणे-रामजन्मकाले राक्षसस्य-रावणस्य श्री: लक्ष्मीस्तस्याः राक्षसश्रियः, अस्यति प्रश्नुते वा कण्ठमिति अश्रु-नेत्राम्बु तस्य बिन्दवः कणाः इति अश्रुबिन्दवः, दश प्राननानि यस्य स दशाननः, तस्य दशाननस्य-दशग्रीवस्य-रावणस्येत्यर्थः किरीटानि-मुकुटानि, इति दशाननकिरीटानि, तेभ्यः दशाननकिरीटेभ्यः मणीनां-मुक्तामणीनां व्याजः-मिषः तेन मणिव्याजेन पृथिव्यां भूमौ पर्यस्ताः पतिताः । रामावतारे जाते सति रामेण वध्यस्य रावणस्य मुकुटरत्नभ्रंशलक्षणमशुभशकुनं जातमित्यर्थः ।
समास:--स चासौ क्षरणस्तं तत्क्षणम् । राक्षसस्य श्रीः, तस्याः राक्षसश्रियः । प्रश्रुणः बिन्दवः, अश्रुबिन्दवः । दश आननानि यस्य स दशाननः, दशाननस्य किरीटास्तेभ्यः, दशाननकिरीटेभ्यः । मणीनां व्याजस्तेन मरिणव्याजेन ।
हिन्दी-"अयोध्या में रामजन्म हुआ, और लंका में" उसी क्षण राक्षस. राज रावण की राज्यलक्ष्मी के आँसू की बून्द, दस मुख वाले रावण के मुकुटों से मणियों के बहाने पृथिवी में गिर पड़ीं। अर्थात् रामावतार होते ही रावण की मुकुटमणि गिर पड़ी मानों मणि के रूप में, ये रावण की लक्ष्मी के प्राँसू गिर पड़े ॥७॥
पुत्रजन्मप्रवेश्यानां तूर्याणां तम्य पुत्रिणः।
प्रारम्भं प्रथमं चक्रदेवदुन्दुभयो दिवि ।।७६॥ संजी०- पुत्रेति । पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः । तूर्याणां वाद्यानामारम्भर पक्रम प्रथमं दिवि देवदुन्दुभयश्चकुः । साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥७॥
अन्वयः-पुत्रिणः तस्य पुत्रजन्मप्रवेश्यानां तूर्याणाम आरम्भं प्रथमं दिवि. देवदुन्दुभयः चक्रुः।