________________
रघुवंशमहाकाव्ये अन्वयः-परस्पराविरुद्धाः ते तत् अनघं रघोः कुलम् , ऋतवः देवा. रण्यम् इव अलम् उद्द्योतयामासुः ।
व्याख्या-परस्परम् अन्योन्यम् न विरुद्धाः, अविरुद्धा: अविरोधिनः, ते= कुमाराः तत् जगत्प्रसिद्धम् न अघं यस्मिन् तत् अनघं निष्पापं रघो:-दिलीपसूनोः कुलम्बं शम् ऋतवः वसन्तादयः देवानाम् = सुराणाम् अरण्यं = वनमिति तत् देवारण्यं-नन्दनम् इव-यथा अलम्-प्रत्यर्थ-भृशम् उद्द्योतयामासुः प्रकाशयाश्चक्रुः, भ्रातृसौहार्दवन्तः कुलभूषणाः भवन्तीत्यर्थः ।
समासः-परस्परं न विरुद्धाः, परस्पराविरुद्धाः । न अघं यस्मिन् तत् अनघम्, तत् । देवानाम् अरण्यमिति देवारण्यम् तत् ।
हिन्दी-पापस में विरोध न रखने वाले (प्रेम से रहने वाले ) उन चारों भाइयों ने लोकप्रसिद्ध पापरहित रघु के कुल · को उसी प्रकार उज्वल कर दिया जिस प्रकार परस्पर सब ऋतुयें मिलकर नन्दन वन को शोभित करती हैं। छहों ऋतु मिलकर सदा सर्व ऋतु के पुष्पों से नन्दन वन को विकसित कर देती हैं ।।८०॥
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्व बभूवतुः ।।८१॥ संजी०- समान इति । शोभनाः स्निग्धभ्रातरो येषां ते सुभ्रातरः । 'नवृतश्च' (पा. ५।४।१५३ ) इति कब्न भवति । 'वन्दिते भ्रातुः' इति निषेधात् । तेषां भावः सौभ्रात्रम् । यवादित्वादण । तस्मिन्समाने चतुर्णा तुल्येऽपि यथोभौ राम-लक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः । तथा भरतशघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्ती बभूवतुः । द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रम यज्ञपात्रप्रयोगाभिव्यक्तिषु' ( पा.८।१।१५ ) इत्यभिव्यक्तार्थे निपातः । क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ।।८१॥
अन्वयः-सौभ्रात्रे समाने अपि हि यथा उभी रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः तथा भरत शत्रुध्नौ प्रीत्या द्वन्द्वं बभूवतुः ।
व्याख्या-भ्राजन्ते इति भ्रातरः । स = शोभनाः भ्रातरः= सहोदराः सुभ्रातरः, सुभ्रातृणां भावः सौभ्रात्रं तस्मिन् सौभ्रात्रे सुभ्रातृत्वे समाने चतुर्णा