________________
३७०
रघुवंशमहाकाव्ये प्रकाशितं प्रकटीकृतमित्यर्थः पयसां =जलानां सारम् = अमृतं वर्षतीति वृषावासवः-इन्द्र इति यावत् । इव-यथा प्रत्यग्रहीत्-स्वीकृतवान् ।
समासः- प्रजानां पतिः प्रजापतिः, प्रजापतेरयं प्राजापत्यः, प्राजापत्येन उपनीतमिति प्राजापत्योपनीतम् तत् ।
हिन्दी-राजा दशरथ ने, प्रजापति ( ब्रह्मा ) के पुरुष द्वारा लाये गये उस अन्न (खीर ) को, उसी प्रकार ग्रहण किया, जैसे कि समुद्र से प्राप्त हुए अमृत ( पात्र ) को इन्द्र ने लिया था ॥५२॥
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥५३॥ संजी०–अनेनेति । तस्य राज्ञो दशरथस्यान्यदुर्लभा असाधारणा गुणा अनेन कथिता व्याख्याताः । यद्यस्मात् त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्णादित्वास्वार्थे ष्यन् । तस्य प्रभवः कारणं विष्णुरपि तस्मिन् राज्ञि प्रसूतिमुत्पत्ति चकमे कामितवान् । त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः।।५३॥
अन्वयः-तस्य अन्यदुर्लभाः गुणाः अनेन कथिताः, यत् त्रैलोक्यप्रभवः अपि तस्मिन् प्रसूतिं चकमे।
व्याख्या-तस्य दशरथस्य राज्ञः भूपालस्य अन्येषु इतरजनेषु दुर्लभाः= दुष्प्रापाः इति अन्यदुर्लभाः असाधारणा इत्यर्थः गुण्यन्ते इति गुणाः दयादाक्षिण्यादयः शौर्यादयश्च अनेन दृष्टान्तेन कथिता:-प्रकटिता: व्याख्याताः। यत्-यस्मात् त्रयाणां लोकानां समाहारः त्रिलोकं, त्रिलोकमेव त्रैलोक्यं, त्रैलोक्यस्य भुवनत्रयस्य प्रभवः कारणमिति त्रैलोक्यप्रभवः विष्णुः अपिः समुच्चये, तस्मिन् दशरथे प्रसवनं प्रसूतिस्तां प्रसूतिम्-उत्पत्ति चकमे अकामयत । त्रिलोकनाथोऽपि यस्य गृहे पुत्ररूपेण प्राकट्यमभ्यलषत् तस्य गुणकथने किमु वक्तव्यमिति भावः ।
समासः-अन्येषु दुर्लभाः अन्यदुर्लभाः । त्रैलोक्यस्य प्रभवः, इति बलोक्यप्रभवः।
हिन्दी-उस राजा दशरथ के दूसरों में दुर्लभ (असाधारण) गुण, इससे कह दिये हैं (प्रकट हो गये हैं ) जो कि, त्रिलोको का कारण होकर भी विष्णु उस