________________
२४
दशमः सर्गः
३६६
व्याख्या-आदौ भवः प्राद्यस्तस्य आद्यस्य-प्रथमस्य पुंसः-पुरुषस्य विष्णोः अनुप्रवेशात्-अधिष्ठानात् कारणात्, तेनदिव्यपुरुषेण अपि दुःखेन वोढुं शक्यः दुर्वहस्तं दुर्वहम्-वोढुमशक्यं हेम्ना-सुवर्णस्य पात्रं-भाजनमिति हेमपात्रं वत्र गतं स्थितं तं हेमपात्रगतम् । पयसि-दुग्धे पक्वः पयःपक्वः, पयःपक्वश्चासौ चरुः= हविष्यान्नमिति पयश्चरुस्तं पयश्चरुम् (शकपार्थिवादित्वात्पक्वपदस्य लोपः) पायसान्नम् दोभ्या-हस्ताभ्याम् आदधानः बिभ्राणः धारयन्नित्यर्थः दिव्यः पुरुषः प्रबभूवेति पूर्वश्लोकेनान्वयः।
समासः-पयसि पक्वः चरः पयश्चरुस्तं पयश्चरुम् । हेम्नः पात्रं हेमपात्रं हेमपात्रे गतस्तं हेमपात्रगतम् ।
हिन्दी-प्रथम पुरुष भगवान् विष्णु के ( उस चरु में ) प्रविष्ट होने के कारण उस दिव्य पुरुष से भी दुःख से उठाये हुए ( चौदह भुवनों के भार वाले भगवान् के प्रवेश से अत्यन्त भारी होने से ) तथा सोने के पात्र ( कटोरे) में रखे हुए, दूध में पके चरु को, दोनों हाथों से लिये हुए दिव्य पुरुष प्रकट हुआ ॥५१॥
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीनपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता ॥५२॥ संजी०-प्राजापत्येति । नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं, न तु वसिष्ठेन । 'प्राजपत्यं नरं विद्धि मामिहाभ्यागतं नृप ! ( बाल. १६।१६ ) इति रामायणात् । तदन्नं पायसान्नम् । उदन्वतोदधिनाऽविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव । 'वासवो वृत्रहा वृषा' इत्यमरः । प्रत्यग्रहीत् स्वीचकार ॥५२॥
अन्वयः-नृपः प्राजापत्योपनीतं तत् अन्नम् , उदन्वता आविष्कृतं पयसां सारं वृषा इव प्रत्यग्रहीत् ।
व्याख्या-नृपः राजा दशरथः प्रजायन्ते इति प्रजाः । प्रजानां लोकानां पतिः= स्वामी प्रजापतिः = ब्रह्मा प्रजापतेः अयं प्राजापत्यस्तेन प्राजापत्येन= प्रजापतिपुरुषेण उपनीतम् प्रापितं तत् प्राजापत्योपनीतं तत्-अन्नं तदन्नं पय श्रुम् उदकानि सन्ति प्रस्यासौ उदन्वान् , तेन उदन्वता-समुद्रेण आविष्कृतं=