________________
रघुवंशमहाकाव्ये
अथ तस्य विशां पत्युरन्ते काम्यस्य कर्मणः ।
पुरुषः प्रवभूवाग्नेविस्मयेन सह स्विजाम् ॥५०॥ . संजी०-अथेति । अथ तस्य विशांपत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात् पुरुषः कश्चिद्दिव्यः पुमान् । ऋत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव । तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥५०॥
अन्वयः-अथ तस्य विशांपत्युः काम्यस्य कर्मणः अन्ते, अग्नेः पुरुषः ऋत्विजां विस्मयेन सह प्रबभूव ।
व्याख्या-अथ-अनन्तरं देवानां विष्णोरनुगमनानन्तरमित्यर्थः तस्य राज्ञो दशरथस्य विशां मनुजानां पत्युः= स्वामिनः कामयितुं योग्यं काम्यं तस्य काम्यस्य= पुत्रार्थमभिलषितस्य कर्मणः-पुत्रकामेष्टेः, अन्ते समाप्तौ, अग्नेः= वह्नः सकाशात् पुरुषः-दिव्यः कश्चित्पुमान् ऋतौ यजन्तीति ऋत्विजस्तेषाम्, ऋत्विजां-याज्ञिकानां विस्मयेन-आश्चर्येण सह-साकं प्रबभूव-प्रादुरास, दिव्यपुरुषस्य आविर्भावात् याज्ञिकानामपि आश्चर्य जातमित्यर्थः ।
हिन्दी-देवताओं के विष्णु का अनुगमन करने के पश्चात् उस मनुष्यों के स्वामी दशरथ के पुत्रेष्टि यज्ञ की पूर्णाहुति ( समाप्ति ) होते ही अग्नि से एक दिव्यपुरुष याज्ञिक ऋषियों के आश्चर्य के साथ प्रकट हुआ। अर्थात् दिव्यपुरुष के उस क्षण प्रकट होने से ऋषियों को बड़ा आश्चर्य हुआ ॥५०॥ तमेव पुरुषं विशिनष्टि
हेमपात्रगतं दोामादधानः पयश्चरुम ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ।।५।। संजी०–हेमपाशेति । प्राद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम् चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम् । हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोामादधानो वहन् । 'अनल्पाग्निभिरूष्मपक्व प्रोदनश्चरुः' इति याज्ञिकाः ॥५१॥
अन्वयः-श्राद्यस्य पुंसः अनुप्रवेशात् "हेतोः” तेन भपि दुर्वहं हेमपात्रगतं पयश्चरुं दोयम् आदधानः पुरुषः प्रबभूवेति पूर्वेणान्वयः ।