________________
दशमः सर्गः
३७१ राजा का पुत्र होने की कामना करता था। अर्थात् जगत् का कारण विष्णु भी जिसका पुत्र होना चाहे वह राजा परमगुणों का आश्रय है ॥५३।।
स तेजो वैष्णवं पत्न्योविभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ।।५४।। संजी०–स इति । नृपः चरुसंज्ञाऽस्य संजाता चरुसंज्ञितम् । वैष्णवं तेजः पत्न्योः कौसल्या-कैकेय्योः द्योश्च पृथिवी च द्यावापृथिव्यो। 'दिवसश्च पृथिव्याम्। इति चकारात् 'दिव'शब्दस्य द्यावादेशः । तयोर्यावापृथिव्योः प्रह्नः पतिरहपतिः । 'अहरादीनां पत्यादिषु वा रेफः' ( वा. ४८१५) इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः । प्रत्यग्रमातपं बालोतपमिव विभेजे । विभज्य ददावित्यर्थः ॥५४॥
अन्वयः-सः चरुसंज्ञितम वैष्णवं तेजः पत्न्योः द्यावापृथिव्योः अहर्पतिः प्रत्यग्रं बालातपम् इव विभेजे ।
व्याख्या-राजा दशरथः चरुः हव्यानमिति संज्ञा संजाता, अस्य तत् चहसंज्ञितम् =चरुनामक विष्णोः इदं वैष्णवं विष्णुसंबन्धि तेजः धाम पत्युः यज्ञे संयोगो याभ्यामिति पत्न्यौ तयोः पत्न्योः भार्ययोः कौसल्याकैकेय्योरित्यर्थः । द्यौः= प्राकाशं च पृथिवी भूमिश्चेति द्यावापृथिव्यो तयोः द्यावापृथिव्योः अह्नः पतिः, प्रहप॑तिः - सूर्यः प्रत्यग्रं-नूतनम् अातपं बालातपम् इव-यथा विभेजे= विभक्तवान् । द्वौ भागौ कृत्वा ददौ, इत्यर्थः ।
समासः-वाश्च पृथिवी चेति द्यावापृथियो, तयोः द्यावापृथिव्योः । अह्नः पतिः प्रहप॑तिः।
हिन्दो -राजा दशरथ ने चह नाम वाले, विष्णु के लेज ( खीर ) को अपनी कौसल्या, कैकेयो पत्नियों में वैसे ही विभाग कर दिया, जैसे कि प्रकाश और पृथिवी में सूर्य भगवान् नई धूप को बाँट देते हैं ॥५४॥ पत्नीत्रये सति द्वयोरेव विभागे कारणमाह
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥१५॥