________________
दशमः सर्गः
३६३
अन्वयः-सः अहम् दाशरथिः भूत्वा तच्छिरःकमलोच्चयं तीचणैः शरैः रणभूमेः बलिक्षमं करिष्यामि ।।
व्याख्या-सः असुरसंहारे प्रसिद्धः अहं-विष्णुः दशरथस्य राज्ञोऽपत्यं पुमान् दाशरथिः दशरथपुत्रः रामः भूत्वा अवतीर्य तीक्ष्णः निशितैः शरैः- बाणः श्रीयते उष्णीषादिना इति शिरः । तस्य-रावरणस्य शिरांसि-मस्तकानि एव कमलानि पद्मानि, इति तच्छिरःकमलानि, तेषाम् उच्चयः- राशिः तं तच्छिरःकमलोच्चयं रणस्य-युद्धस्य भूमिः स्थलमिति रणभूमिस्तस्याः रणभूमेः बलेः उपहारस्य क्षमः योग्यः इति बलिक्षमस्तं बलिक्षमं करिष्यामि-विधास्यामि, युद्धस्थले रावणमस्तकानि कर्तयिष्यामीत्यर्थः।
समासः-तस्य शिरांसि, तच्छिरांसि तच्छिरांसि एव कमलानीति, तच्छिरःकमलानि, तेषाम् उच्चयस्तं तच्छिरःकमलोच्चयम् । रणस्य भूमिस्तस्याः रणभूमेः । बलेः क्षमस्तं बलिक्षमम् ।
हिन्दी-असुरों का संहार करने में प्रसिद्ध मैं राजा दशरथ का पुत्र (राम) होकर ( रामजन्म लेकर ) रावण के शिररूपी कमलों के समूह को अपने तीखे बाणों से रणभूमि की भेंट पूजा के योग्य कर दूंगा, अर्थात् रावण के शिरों को काटकर रणभूमि को भेंट करूंगा ॥४४॥
अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥४५।। संजी०-अचिरादिति । हे देवाः ! यज्वभिर्याज्ञिकविधिवत् कल्पितमुपहृतं भागं हविर्भागं मायाविभिर्मायावद्भिः । 'अस्मायामेधास्रजो विनिः' (पा. ५।२।१२१) इति विनिप्रत्ययः । निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाऽचिरात् पुनरादास्यध्वे ग्रहीष्यध्वे ॥४५॥ ___ अन्वयः- "हे देवाः ! यूयम्" यज्वभिः विधिवत् कल्पितं मागं मायाविभिः निशाचरैः अनालीढं 'यथा स्यात्तथा" अचिरात् पुनः श्रादास्यध्वे ।
व्याख्या-हे देवाः ! यूयम् यज्वभिः याज्ञिकैः विधानं विधिः, विधिना तुल्यं विधिवत् यथाशास्त्रम् कल्पितं-दत्तम्-उपहृतं भाग-हविर्भागं माया अस्ति येषु ते मायाविनस्तैः मायाविभि: मायावद्भिः निशायां चरन्तीति निशाचरास्तैः