________________
३६२
रघुवंशमहाकाव्ये संप्रति वरस्वरूपमाह
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्येवास्थापरामुखः ।।४३॥ संजी०-धातारमिति । स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणम् । मर्येषु विषय प्रास्थापराड मुखः पादरविमुखः सन् । माननादृत्येत्यर्थः । देवादष्टः विधात् सर्गाईवसृष्टे रवध्यत्वं ययाचे हि ॥४३॥
अन्वयः-सा राक्षसः तपसा प्रीतं धातारं मर्येषु श्रास्थापराङ्मुखः सन् दैवात् सर्गात् भवध्यत्वं ययाचे हि ।
व्याख्या-सः = प्रसिद्धः राक्षसः= रावण: तप्यते इति तपः तेन तपसा= तपस्यया प्रीतं प्रसन्नं दधातीति धाता तं धातारं ब्रह्माणं म्रियते इति मतः । मत एव मर्त्यः । मर्येषु मनुष्येषु विषये आस्थायाः-प्रादरात् पराङमुखः-विमुखः इति प्रास्थापराङमुखः सन् मनुष्या मेकिंचित्करा इति विश्वस्तः सन्नित्यर्थः देवात् मागतं देवं तस्मात् देवात् अष्टविधात् सर्गात् भाग्यसृष्टः हन्तुं योग्यः वध्यः, न वध्योऽवध्यस्तस्य भावः अवध्यत्वम्अविनाश्यत्वं ययाचे याचितवान् हि ।
समासः- मास्थायाः पराडमुख इति आस्थापराड मुखः । न वध्यत्वमिति अवध्यत्वम् । तत् ।
हिन्दी-उस राक्षस रावण ने अपनी तपस्या से प्रसन्न हुए ब्रह्माजी से, मनुष्यों को तुच्छ जानकर आठ प्रकार की देव सृष्टि ( देवों से ) से मैं न मारा जाऊ यही वर मांगा ॥४३॥ तर्हि का गतिरित्याशङ्कय मनुष्यावतारेण हनिष्यामीत्याह
सोऽहं दाशरथिभूत्वा रणभूमेबलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् ॥४४॥ संजी०- सोऽहमिति । सोऽहम् । दशरथस्यापत्यं पुमान् दाशरथिः । 'मत इन् ' ( पा. ८।१।१५ ) इतीप्रत्ययः । रामो भूत्वा तीक्ष्णः शरैरतस्य रावणस्य शिरांस्येव कमलानि तेषामुच्चयं राशि रणभूमेबलिक्षमं पूजाहं करिष्यामि । पुष्पविशदा हि पूजेति भावः ॥४४॥