________________
३६५
रघुवंशमहाकाव्ये निशाचरैः-राक्षसः, न आलीठम्, अनालीढम् - अनास्वादितम् यथा स्यात्तथा, अचिरात् शीघ्र पुनः आदास्यध्ये प्राप्स्यथ ।
समासः-माया अस्ति येषु ते मायाविनस्तैः मायाविभिः । न प्रालीढं यस्मिन् कर्मणि तत् अनालीढम् ।
हिन्दी-हे देवो ! याज्ञिकों के द्वारा विधिपूर्वक दिये हुए, "आपके" हवि भाग को, मायावी राक्षसों से बिना चखे ही आपलोग फिर शीघ्र ही प्राप्त करेंगे। अर्थात् अब आपके यज्ञभाग को राक्षस नहीं छीन सकेंगे, आप लोग ही उसको ग्रहण करेंगे ॥४५॥
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥४६।। संजी०-वैमानिका इति । मरुतां देवानां पथि व्योम्नि वैमानिका विमानश्चरन्तः । 'चरति' ( पा. ४।४।८) इति ठक्प्रत्ययः । मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः । पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु । 'संक्षोभो भयचकितम्' इति शब्दार्णवः ।।४६।।
अन्वयः-मरुतां पथि वैमानिकाः मेघावरणतत्पराः पुण्यकृतः "भवन्तः" पुष्पकालोकसंक्षोभं त्यजन्तु ।
व्याख्या-म्रियन्ते यः प्रवृद्धः, विना वा ते मरुतस्तेषां मरुतां देवानां, वायूनां वा पथि-मार्ग आकाशे विमानः व्योमयानः चरन्तीति वैमानिकाः देवाः मेघाः =घनाः एव आवरणानि आच्छादनानि, इति मेघावरणानि, तेषु तत्पराः= सक्ताः लीना इत्यर्थः, इति मेघावरण तत्पराः रावणभयेन मेघेषु अन्तर्हिताः इत्यर्थः, पुण्यं कुर्वन्तोति पुण्यकृतः सुकृतिनो भवन्तः पुष्पमिव पुष्पकम् पुष्पकस्य = पृष्पकविमानस्य पालोकः दर्शनमिति पुष्पकालोकः, पुष्पकालोकेन-यदृच्छया रावणविमानदर्शनेनेत्यर्थः संक्षोभः भयचकितमिति तं पुष्पकालोकसंक्षोभं त्यजन्तु : जहतु-मुञ्चन्त्वित्यर्थः ।
समासः-पुण्यस्य कृतः पुण्यकृतः। पुष्पकस्य पालोकः पुष्पकालोकस्तेन