________________
५
.
दशमः सर्गः बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषा चरणाद्गङ्गेवोवप्रवर्तिनी ॥३०॥ संजी०-बभाविति । विभोर्विष्णोर्वदनादुद्गता निःसृता। सदशनज्योत्स्ना दन्तकान्तिसहिता। इदं च विशेषणं धावल्यातिशयार्थम् । अत एव सा भारती । चरणादब्रेनिर्याता चासौ शेषा च निर्यातशेषा । निःसृतावशिष्टेत्यर्थः 'स्त्रियाः पुंवत्-' (पा. ६।३।३४ ) इत्यनुवर्त्य 'पुंवत्कर्म -' (पा. ६॥३॥४२ ) इति पुंवद्भावः । 'निर्यात'शब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः । निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घट एव । ऊर्ध्वप्रवर्तिन्यूलवाहिनी गङ्गेव । बभौ । इत्युत्प्रेक्षा ॥३७॥
अन्वयः-विभोः वदनोद्गता सदशनज्योत्स्ना सा चरणात् निर्यातशेषा ऊर्ध्वप्रवर्तिनी गंगा इव बभौ । __ व्याख्या-विशेषेण भवतीति विभुस्तस्य विभोः सर्वतत्त्वावधारणसमर्थस्य ईश्वरस्य विष्णोः वदनात्-मुखात् उद्गता=निःसृता-प्रकटिता, इति वदनोद्गता, दश्यते, एभिरिति दशनाः दन्ताः ज्योतिरस्ति अस्यां सा ज्योत्स्ना । दशनानां ज्योत्स्ना कान्तिः, इति दशनज्योत्स्ना, दशनज्योत्स्नया सह वर्तते सा सदशनज्योत्स्ना सा भारती चरन्त्यनेनेति चरणस्तस्मात् चरणात् विष्णुपादात् निर्याता निःसृता चासौ शेषा-प्रवशिष्टा चेति निर्यातशेषा-निर्गतावशिष्टा = या निःसृता सावशिष्टा इति सामानाधिकरण्यम् । ऊर्ध्वम् आकाशे प्रवर्तते वहति तच्छीला ऊर्ध्वप्रवर्तिनी-ऊलवाहिनी गच्छतीति गङ्गा-भागीरथी इव-यथा बभौ-शुशुमे, इत्युत्प्रेक्षालंकारः।
समासः-वदनात् उद्गता वदनोद्गता। दशनानां ज्योत्स्ना दशनज्योत्स्ना, तया सह वर्तते इति सदशनज्योत्स्ना। निर्याता चासौ शेषा च निर्यातशेषा। ऊध्वं प्रवर्तिनी ऊर्ध्वप्रवर्तिनी।
हिन्दी-व्यापक भगवान् विष्णु के मुख से निकली ( उच्चारण की गई) तथा भगवान् के दांतों को कान्ति से चमकती हुई ( अत्यन्त धवल ) वह वाणी, ऐसी सुशोभित हुई कि मानों भगवान् के चरण से निकलने से बची ऊपर को बहने वाली गंगाजी हो ॥३७॥