________________
३५६
रघुवंशमहाकाव्ये येन स परिभूतार्णवध्वनिः (अर्णासि जलानि सन्ति अस्य सोर्णवः) भगम्= ऐश्वर्यमस्यास्तीति भगवान् विष्णुः उवाच-उक्तवान् । ____ समासः-वेलायां समासन्नाः ये शैलास्तेषां रन्ध्राणि, इति वेलासमासन्नशैलरन्ध्राणि, तेषु अनुनादी इति वेलासमासन्नशैलरन्ध्रानुनादी तेन वेलासमासन्नशैलरन्ध्रानुनादिना । परिभूतः अर्णवस्य ध्वनिः येन स परिभूतार्णवध्वनिः । ___ हिन्दी-देवताओं की प्रार्थना सुनने के पश्चात् समुद्र के किनारे पर वर्तमान ( खड़े ) पर्वतों की गुफाओं में प्रतिध्वनित ( टकराये ) हुए स्वर से अपनी आवाज से) समुद्र के निर्घोष को तिरस्कृत करने वाले विष्णु बोले ॥३५॥
पुराणस्य कवेस्तस्य वर्णस्थानसमोरिता ।
बभूव कृत संस्कारा चरितार्थव भारती ॥३६॥ सजी-पुराणस्येति । पुराणस्य चिरंतनस्य कवेस्तस्य भगवतो वर्णस्थाने. पूरःकण्ठादिषु समीरिता सम्यगुच्चारिता। अत एव कृतः संपादितः संस्कारः साध. स्वस्पष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था बभूवैव । 'एव:कारस्त्वसंभावनाविपरीतभावनाव्युदासार्थः ॥३६॥
अन्वयः-पुराणस्य कवेः तस्य वर्णस्थानसमीरिता "अत एव" कृतसंस्कारा भारती चरितार्था एव बभूव ।
व्याख्या--पुराणस्य-चिरंतनस्य कवते, कौति वा कविस्तस्य कवेः--मनी. षिणः तस्य विष्णोः वर्णानाम् अकारादीनां स्थानानि-कण्ठताल्वादीनि तेष सम्यक ईरिता-उच्चारिता इति वर्णस्थानसमोरिता अत एव कृताः= सम्पादिताः संस्काराः- साश्रुत्वादयः यस्याः सा कृतसंस्कारा, भारती-वाणी चरितः कृतः अर्थः -प्रयोजनं यस्याः सा चरितार्था सफला एव बभूव = जाता, सफलैव जाता नात्र कश्चन सन्देह इत्यर्थः ।
समासः-वर्णानां स्थानानि, तेषु वर्णस्थानेषु समीरिता, वर्णस्थानसमीरिता । कृतः संस्कारो यस्याः सा कृतसंस्कारा । चरितः अर्थो यस्याः सा चरितार्था ।
हिन्दी-सबसे पुराने कवि उस विष्णु भगवान् के कण्ठ तालु दन्त आदि नयों के स्थान से सम्यग रूप से उच्चारण की गई, अत एव साधुत्व स्पृष्टतादि प्रयत्न रूप संस्कार वाली वाणी कृतार्थ ( सफल ) ही हो गई ॥३६॥