________________
३५८
यदाह भगवांस्तदाह
रघुवंश महाकाव्ये
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ ||३८||
संज- जान इति । हे देवाः ! वो युष्माकमनुभाव - पराक्रमौ महिम- पुरुषकारों रक्षसा रावणेन । श्रङ्गिनां शरीरिणां प्रथम- मध्यमावुभौ गुणौ सत्त्व- रजसी तमसेव तमोगुणेनेव आक्रान्तौ जाने । वाक्यार्थः कर्म ॥ ३८ ॥
अन्वयः - हे देवाः ! दः अनुभावपराक्रमौ रक्षसा, अंगिनां प्रथममध्यमौ गुण तमसा इव आक्रान्तौ "ह" जाने ।
व्याख्या-हे देवाः ! वः = युष्माकम् अनुभावनम् अनुभावः । पराक्रम्यतेऽनेनेति पराक्रमः । श्रनुभावः=प्रभावः पराक्रमः = सामर्थ्यम् = उद्योगश्चेति अनुभावपराक्रमौ तौ, अनुभावपराक्रमौ रक्षसा = निशाचरेण रावणेनेत्यर्थः अंगानि शरीराणि सन्ति येषां ते अंगिनस्तेषाम् श्रंगिनां = शरीरिणाम् प्रथमः सत्त्वगुणः मध्यमः रजोगुरणश्चेति प्रथममध्यमौ उभौ द्वौ गुणौ = सत्त्वरजसी ताम्यति श्रनेनेति तमस्तेन तमसा = तमोगुणेन इव = यथा आक्रान्तौ = आच्छादितौ = पराभूतावित्यर्थः श्रहं जाने वे जानामीत्यर्थः ।
=
समासः- अनुभावश्च पराक्रमश्च अनुभावपराक्रमी, तो अनुभावपराक्रमौ । प्रथमश्च मध्यमश्चेति प्रथममध्यमौ,
।
हिन्दी - भगवान् विष्णु कहते हैं कि हे देवो ! आपके प्रभाव और उद्योगसामर्थ्य को राक्षस रावण ने उसी प्रकार दबा दिया है, जैसे कि शरीरधारियों ( प्राणियों ) के पहले व दूसरे सत्वगुण रजोगुण ( दोनों गुणों ) को तमोगुण दबा देता है । यह मैं जानता हूं ||३८||
विदितं तप्यमानं च तेन मे भुवनत्रयम् । अकामोपनतेनेव साधोर्हृदयमेनसा ||३६||
संजी० - विदितमिति । किच, कामेनानिच्छ्योपनतेन प्रमादादागतेनेंनसा पापेन साधोः सज्जनस्य हृदयमिव । तेन रक्षसा तप्यमानं संतप्यमानम् । तपेभवादिकात्कर्मणि शानच् । भुवनत्रयं च मे विदितम् मया ज्ञायत इत्यर्थ: । ' मतिबुद्धि - '