________________
रशमा पर्ण पक्षिराजं त्वद्वोढाऽहं त्वत्तो बलाढ्यः' इति गर्वितं स्ववामतर्जनीभारेणैव भक्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति 'विनीतेन' इत्यनेन ।।१३।।
अन्वयः----मुक्तशेषविरोधेन कुलिशवणलचमणा प्राञ्जलि विनीतेन गरुत्मता उपस्थितम् ।
व्याख्या-शेषेण सर्पराजेन वह विरोधः = वैरमिति शेषविरोधः, मातापरित्यक्तः- शेषविरोधः येन स तेन मुक्तशेषविरोधेन विष्णसामीप्यादित्यर्थः । कुलौ हस्तदले शेते इति कुलिशः । कुलिनः-पर्वतान् श्यति, इति वा कुलिशः, कुलिशस्य वज्रस्य व्रणाः=क्षताः एव लक्ष्माणि चिह्नानि यस्य स तेन कलिशवणलक्ष्मणां प्रबद्धः विहितः अञ्जलिः--करसंपुटं येन स तेन प्राञ्जलिना, विनीतेन विनम्रण, गरुतः-पक्षाः सन्त्यस्य गरुत्मान् तेन गरुत्मता-गरुडेन उपस्थितम् = उपासितं, पक्षिराजेन सेवितमित्यर्थः ।
समासः-मुक्तः शेषेण सह विरोधो येन स तेन मुक्तशेषविरोधेन । कुलिशस्य व्रणा एव लक्ष्माणि यस्य स तेन कुलिशवणलक्ष्मणा। प्रबद्धः अञ्जलिः येन स तेन प्राञ्जलिना।
हिन्दी-सर्पराज के साथ वैर का त्याग किये हुए, और वज्र की चोट के चिह्न वाले, हाथ जोड़े, अत्यन्त नम्र (सीधे-सादे ) गरुड से सेवित विष्णु को देवों ने देखा । अर्थात् हाथ जोड़कर गरुड़ विष्णु के सामने नम्र भाव से खड़े थे ॥१३॥
योगनिद्रान्तविशदैः पावनरवलोकनैः ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानुषीन् ॥१४॥ संजी०-योगेति । योगो मनसो विषयान्तरव्यावृत्तिः, तद्रपा या निद्रा तस्या अन्तेऽवसाने विशदः प्रसन्नै: पावन : शोधन रवलोकन: । सुखशयनं पृच्छन्तीति सौखशायनिकास्तान् । 'पृच्छतौ सुस्नातादिभ्यः' ( वा. २९५३ ) इत्युपसंख्यानाटुक्प्रत्ययः । भृग्वादीनृपीननुगृह्णन्तम् ॥१४॥
अन्वयः-योगनिद्रान्तविशदैः पावनैः अवलोकनैः सौखशानिकान् भृग्वादीन् ऋषीन् अनुगृह्णन्तम् ।
व्याख्या-योगः:चित्तस्य विषयान्तरव्यावृत्तिः एव निद्रा-शयनमिति योगनिद्रा । योगनिद्रायाः अन्तः अवसानं तस्मिन् विशदानि-प्रसन्नानि तैः योगनि