________________
३३६
रघुवंशमहाकाव्ये
उदीरितजयस्वनम् । जयशब्दमुद्धोषयन्तीभिमूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमित्यर्थः ॥१२॥
अन्वयः-दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः चेतनावद्भिः हेतिभिः उदीरितजयस्वनं विष्णुं ददृशुः ।
व्याख्या-दितेः अपत्यानि दैत्याः । दैत्यानाम्-असुराणां स्त्रियः-अंगनाः तासां गण्डलेखाः-कपोलस्थल्यस्तासां दैत्यस्त्रीगण्डलेखानाम्, मदस्य-मद्यस्य रागः= रक्तिमा, इति मदरागः मदरागं विलुम्पन्ति=विनाशयन्तीति तैः मदरागविलो. पिभिः, चेतना अस्ति येषु ते तैः चेतनावद्भिः सजीवः हन्यते याभिस्ताः हेतयस्ताभिः हेतिभिः-सुदर्शनादिशस्त्रः, उदीरितः उद्घोषितः जयस्वनः-जयशब्दः यस्य स तम् उदीरितजयस्वनं विष्णुं ददृशुः। सशरीराभिः सुदर्शनादिशस्त्रदेवताभिः जयजयेति शब्दम् उच्चार्य स्तूयमानमित्यर्थः । अत्र हेतिशब्दस्य "स्त्रियां क्तिन्" इति क्तिन्नन्तत्वेन स्त्रीत्वात् मदरागविलोपिभिः चेतनावद्भिरिति विशेषणयोः पुस्त्वं चिन्त्यमिति :
समासः-गण्डानां लेखाः गण्डलेखाः, दैत्यानां स्त्रियस्तासां गण्डलेखास्तासां दैत्यस्त्रीगण्डलेखानाम् । मदस्य रागस्तं विलुम्पन्तीति ताभिः मदरागविलो. पिभिः । उदीरितः जयस्वनः यस्य स तम् उदीरितजयस्वनम् ।।
हिन्दो-दैत्यों की स्त्रियों के गालों की मदलालिमा को मिटाने वाले, सजीव सुदर्शनचक्र आदि शस्त्र जिन के जय जय कार शब्द को उद्घोषित कर रहे हैं, ऐसे विष्णु को देखा ॥१२॥
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राब्जलिना विनीतेन गरुत्मता ।।१।। संजी०-मुक्तेति । मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सहजमपि वैरं येन तेन । कुलिशत्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रप्रहारास्त एव लक्ष्माणि यस्य स तेन । प्रबद्धोऽञ्जलियेन तेन प्राञ्जलिना। कृताञ्जलिनेत्यर्थः । विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम् । पुरा किल मातलिप्रार्थितेन भगवता तदुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते स्वविपक्षरक्षणक्षभितं