________________
३३८
रघुवंशमहाकाव्ये द्रान्तविशदः पावयन्तीति पावनानि तैः पावनैः शोधनैः, अवलोक्यन्ते यस्तानि तैः अवलोकन: दृष्टिभिः, सुखं यथा स्यात्तथा शयनमिति सुखशयनं तत् पृच्छन्तीति सौखशायनिकाः सुखेन भवता शयितमिति पृच्छकास्तान् सौखशायनिकान् भृगुः= जमदग्निः आदिः = येषां ते भृग्वादयस्तान् भृग्वादीन्-जमदग्निप्रभृतीन् ऋषन्तिप्राप्नुवन्ति मंत्रान् इति ऋषयः । ऋषन्ति = ज्ञानेन पश्यन्ति संसारपारं वेति ऋषयस्तान् ऋषीन्-ज्ञानसंसारयोः पारगन्तन् अनुगृह्णातीति अनुगृह्णन् तम् अनुगृह्णन्तं विष्णुमिति ।
समासः-योग एव निद्रा योगनिद्रा, योगनिद्रायाः अन्तः योगनिद्रान्तः तस्मिन् विशदानि, तैः योगनिद्रान्तविशदैः। भृगुः आदिः येषां ते तान् भृग्वादीन् ।
हिन्दी-योगनिद्रा की समाप्तिपर ( योगनिद्रा से उठने पर ) निर्मल एवं पवित्र करने वाली अपनी दृष्टि (चितवन ) से. 'भगवन् पाप सुखपूर्वक सोये' ऐसा पूछने वाले भृगु आदि ऋषियों को अनुगृहीत ( कृतार्थ ) करने वाले विष्ण को देखा ॥१४॥
प्राणपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥१५।। संजी०–प्रणिपत्येति । अथ दर्शनानन्तरं सुराः सुरद्विषामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्राहम् । ‘एतिस्तुशास्वदृजुषः क्यप्' (पा. ३।१।१०९) इति क्यप्प्रत्ययः । वाक्च मनश्च वाङ्मनसे । 'प्रचतुर-' (पा. ५।४।७७ ) इत्यच्प्रत्ययान्तो निपातः । तयोर्गोचरो विषयो न भवतीत्यवाङमनसगोचरः । तमेनं विष्णुं तुष्टुवुरस्तुवन् ॥१५॥
अन्वयः- अथ सुराः सुरद्विषां शमयित्रे तस्मै प्रणिपत्य स्तुत्यन् अवाङमनसगोचरम् एनं तुष्टुवुः ।
व्याख्या-प्रथ-विष्णदर्शनानन्तरम् सुरा-समुद्रोत्था अस्ति येषां ते, सुष्ठु राजन्ते इति वा सुराः = देवाः । सुरान् =देवान् द्विषन्तीति सुरद्विषस्तेषां सुरद्विषांदैत्यानां शमयतीति शमयिता तस्मै शमयित्रे-विनाशकाय तस्मै = विष्णवे प्रणि पत्य-नमस्कृत्य-प्रमिपातं कृत्वेत्यर्थः, स्तातुं योग्यं स्तुत्यं-स्तवनोयं स्तोत्राहमित्यर्थः, उच्यते इति वाक् । मन्यतेऽनेनेति मनः । वाक-वाणी च मनः-मानसञ्चेति वाङ.