________________
३३०
रघुवंशमहाकाव्ये
इति पौलस्त्योपप्लुताः सन्तः नितरां दह्यतेऽत्र निदाघः। निदाघेन-तपेनउष्णेनेत्यर्थः प्रार्ताः =आतुराः सन्तप्ता इति निदाघार्ताः, अध्वानं-पन्थान गच्छन्तीति अध्वगाः-पथिकाः छायाप्रधानो वृक्षः, छायावृक्षस्तं छायावृक्षं-नमेरुवृक्षम् इव यथा हरि विष्णुम् अभिजग्मुः गतवन्तः । प्रातपेन सन्तप्ताः पथिकाः यथा वृक्षच्छायां गच्छन्ति, एवं रावणेन पीडिता देवा अपि विष्णुं शरणं गता इत्यर्थः। __ समासः-पौलस्त्येन उपप्लुताः पौलस्त्योपप्लुताः। निदाघेन प्रार्ताः निदाघार्ताः । छायाप्रधानः वृक्षः छायावृक्षस्तं छायावृक्षम् ।
हिन्दी-"जब कि पुत्रेष्टि यज्ञ प्रारम्भ हुमा" उसी अवसर पर रावण से सताये गये देवता, उसी प्रकार भगवान विष्णु की शरण में गये जैसे कि धूप से व्याकुल राहगीर छायावाले वृक्ष के पास जाते हैं ॥५॥
ते च प्रापुरुदन्वन्तं बुबुधे चादिपुरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेहि लक्षणम् ॥६॥ संजो०-त इति । ते देवाश्चोदन्वन्तं समुद्रम् । 'उदन्वानुदधौ च' (पा. ८।२।१३ ) इति निपातः । प्रापुः । प्रादिपूरुषो विष्णश्च बुबुधे। योगनिद्रां जहावित्यर्थः । गमनप्रतिबोधयोरविलम्बार्थों चकारौ। तथा हि-अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत् । भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि । उक्त च-'अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्' इति ॥६॥
अन्वयः-ते च उदन्वन्तं प्रापुः श्रादिपुरुषः च बुबुधे, हि अव्याक्षेपः भविष्यन्त्याः कार्यसिद्धेः लक्षणम ।
व्याख्या-ते च-पूर्वोक्ता देवाः च उदकानि सन्ति अस्यासौ उदन्वान् तम् उदन्वन्तं-समुद्रं प्रापुः जग्मुः, आदि:-प्रथमश्चासौ पुरुषः- नरः इति आदिपुरुषः= विष्णुश्च दुबुधे प्रबुद्धः योगनिद्रां त्यक्तवानित्यर्थः । द्वौ चकारौ गमनजागरणयोरविलम्बाौँ । तथा हि विशेषेण आक्षेपः-आसंगः विलम्बः इति व्याक्षेपः न व्याक्षेपः अव्याक्षेपः-अविलम्बः भविष्यति या सा भविष्यन्तीति तस्याः भविष्यन्त्याः कार्यस्य स्वाभीष्टस्य सिद्धेः सफलताया लक्षणम्-चिह्नं भवतीति शेषः ।