________________
दशमः सर्गः ३।२।५९) इत्यादिना क्विबन्तो निपातः । जितात्मानो जितान्तःकरणाः सन्तः संतानकाक्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम् । 'पुत्राच्छ च' ( पा. ५।१।४० ) इति छप्रत्ययः । इष्टिं यागमारेभिरे प्रचक्रमिरे ॥४॥
अन्वयः-ऋष्यशृंगादयः ऋत्विजः जितात्मानः सन्तः, सन्तानकांक्षिणः तस्य पुत्रीयाम इष्टिम भारेभिरे। __ व्याख्या-ऋष्यस्य-मृगविशेषस्य शृंगमिव शृंगं यस्य स ऋष्यशृंगः= विभाण्डकसुतः आदिः प्रथमः येषां ते ऋष्यशृंगादयः ऋतुं ऋतौ वा यजन्ति इति ऋत्विजः याज्ञिकाः जित:-वशीकृतः प्रात्मा-अन्तःकरणं यस्ते जितात्मानः सन्तः= सजनाः सन्तानं-पुत्रं कांक्षते-अर्थते इति सन्तानकांक्षी तस्य सन्तानकांक्षिणः= सुतार्थिनः तस्य-राज्ञः दशरथस्य पुत्रार्थं पुत्रीयां-पुत्रनिमित्ताम् इष्टि- यज्ञम् भारेभिरे-प्रचक्रमुः। __ ममासः-ऋष्यशृंगः आदिर्येषान्ते ऋष्यशृंगादयः । जितः आत्मा यैस्ते जितात्मानः । सन्तानस्य कांक्षी तस्य संतानकांक्षिणः ।
हिन्दी-"तब" ऋष्यशृंग आदि जितेन्द्रिय तथा सजन याज्ञिकों ने सन्तान की इच्छा करने वाले दशरथ के लिये पुत्रेष्टि यज्ञ करना प्रारम्भ कर दिया ॥४॥
तस्मिन्नवसरे देवाः पौलस्त्योपलता हरिम् ।
अभिजग्मुनिदाघार्ताश्छायावृक्षमिवाध्वगाः ॥५॥ संजी.-तस्मिन्निति । तस्मिन्नवसरे पुत्रकामेष्टिप्रवृत्तिसमये देवाः । पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यो रावणः । तेनोपप्लुताः पीडिताः सन्तः निदाघार्ता घर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः । 'अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः' (पा. ३।२।४८ ) इति डप्रत्ययः । छायाप्रधानं वृक्षं छायावृक्षमिव । शाकपार्थिवादित्वात्समासः । हरि विष्णुमभिजग्मुः ।।५।।
अन्वयः-तस्मिन्न अवसरे देवाः पौलस्त्योपालुताः सन्नः निदाघार्ताः अगाः छायावृक्षम् इव हरिम् अभिजग्मुः ।
व्याख्या-तस्मिन् पूर्वोक्ते अवसरे-प्रसङ्गे-पुत्रेष्टिप्रारम्भसमये इत्यर्थः दीव्यन्तीति देवाः अमराः, पुलं-महत्त्वम् असते गच्छतीति पुलस्त्यः ऋ षिविशेषः । पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यः । पौलस्त्येन-रावणेन उपप्लुताः पीडिताः