________________
दशमः सर्गः
३३.
समास:-आदिश्वासौ पुरुषः आदिपुरुषः। विशेषेण आक्षेपः व्याक्षेपः न व्याक्षेपः अव्याक्षेपः । कार्यस्य सिद्धिः कार्यसिद्धिः, तस्याः कार्यसिद्धेः ।
हिन्दी-वे देवता समुद्र के तीर पहुँच गये, और तभी तुरन्त भगवान् वष्णु जाग उठे। ( अर्थात् योगनिद्रा को त्याग दिया ) "ठीक ही है" किसी कार्य में देर न होना भावो कार्य की सिद्धि का चिह्न है। होनेवाले कार्य की सिफलता का सूचक है ॥६॥
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः।
तत्फणामण्डलोदचिमणियोतितविग्रहम् ।।७।। पंजी०-भोगीति । द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः । यद्वा,-'दिव'शब्दोऽदन्तोऽप्यस्ति । तथा च बुद्धचरिते-'न शोभते तेन हि नो विना पुरं मस्त्वता वृत्रवधे यथा दिवम्' इति । तत्र 'दिवु क्रीडादौ' इति धातोः 'इगुपत्र-(पा. ३।१।१३५ ) इति कः । दिवमोक एपामिति विग्रहः । भोगिनः शेषस्य भोगः शरीरम् । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ।' इत्यमरः । स एवासनं सिंहासनम् । तत्रासीनमुपविष्टम् । आसेः शानच् । 'ईदासः' ( पा. ७।२।८३ ) इतीकारादेशः । तस्य भोगिनः फणामण्डले य उदर्चिष उद्रश्मयो मणयस्तैोतितविग्रहं तं विष्णुं ददृशुः ॥७॥
अन्वयः-दिवौकसः भोगिभोगासनासीनं तत्फणामण्डलोदर्मिणिद्योतितविग्रहम् तं ददृशुः ।।
व्याख्या-द्यौः स्वर्गः प्रोकः स्थानं येषां ते दिवौकसः । दिवशब्दः प्रदन्तो. ऽपि, तेन दिवम् प्रोकः येषां ते दिवौकसः देवाः, भोगाः फरणाः सन्ति अस्यासौ भोगी तस्य भोगिनः शेषस्य भोगः- शरीरम् एव प्रासनं-पीठमिति भोगिभोगासनं, भोगिभोगासने आसीनः उपविष्टस्तं भोगिभोगासनासीनम्, फणानां = भोगानां मण्डलं-समूहः इति फणामण्डलम् । उद्गता-प्रकटिता अर्चिः = भा येषां ते उदार्चषः, तस्य भोगिनः फरणामण्डलं तत्फणामण्डलं तस्मिन् उदर्चिषः ये मणयः= रत्नानि तैः द्योतित:-प्रकाशितः, विग्रहः-शरीरं यस्य स तं तत्फणामण्डलोदर्चिमणिद्योतितविग्रहम् । तं भगवन्तं विष्णुं ददृशुः = दृष्टवन्तः ।
समासः—द्यौः प्रोकः येषान्ते दिवौकसः । भोगिनः भोग एव आसनं