________________
रघुवंशमहाकाव्ये शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीक्षितिपोऽपि ॥७॥
संजी०-हा तातेति । हेत्यातौ । तातो जनकः । 'हा विषादशुगर्तिषु' इति, 'तातस्तु जनकः पिता' इति चामरः, हा तातेति क्रन्दितं क्रोशनमाकर्ण्य । विषण्णो भग्नोत्साहः सत् । तस्य ऋन्दितस्य वेतसैगूढं छन्नम् । प्रभवत्यस्मादिति प्रभवः कारणम् । तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । 'शल्यं शङ्को शरे वंशे' इति विश्वः । सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापादुखादन्तः शल्यं यस्य सोऽन्तःशल्य इवासीत् । मत्तमयूरं वृत्तम् ॥७५॥
. अन्वयः-हा तात ! इति क्रन्दितम् श्राकर्ण्य विषण्णः सन् , तस्य वेतसगूढं प्रभवम् अन्विष्यन् शल्यप्रोतं सकुम्भं मुनिपुत्रं प्रेक्ष्य सः क्षितिपः अपि तापात् अन्तःशल्य इव आसीत् ।
व्याख्या-हा-दुःखे, तात-जनक! इति-इत्थं क्रन्दितं-रुदितम् आकर्ण्य - श्रुत्वा विषण्णः हतोत्साहः खिन्नः सन् तस्य-क्रन्दनस्य, वेतसः वानीरैः गूढः= छन्नस्तं वेतसगूढम् प्रभवत्यस्मादिति प्रभवस्तं प्रभवं-कारणम् अन्विष्यन् अनुसंदधानः शल्येन-बाणेन प्रोतः विद्धस्तं शल्यप्रोतं कुम्भेन-कलशेन सहितः सकुम्भस्तं सकुम्भं गृहीतकलशं मुनेः पुत्रस्तं मुनिपुत्रं-श्रवणकुमारं प्रेक्ष्य विलोक्य सः प्रसिद्धः क्षिति-भुवं पाति रक्षतीति क्षितिपः-दशरथः तापात् सन्तापात्= दुःखादित्यर्थः अन्तः हृदये शल्य-शंकुः यस्य सः अन्तःशल्य इव-यथा आसीत्-जातः ।
ममासः–वेतसैः गूढस्तं वेतसगूढम् । शल्येन प्रोतः शल्यप्रोतस्तं शल्यप्रोतम् । कुम्भेन सहितः सकुम्भस्तं सकुम्भम् । मुनेः पुत्रस्तं मुनिपुत्रम् । अन्तः शल्यं यस्यासी मन्तःशल्यः।
हिन्दी-"हाय पिताजी !" इस प्रकार के करुण क्रन्दन ( रोने ) को सुनकर दुःखित होकर, बेंत के झाड़ों से छिपे हुए, उस चिल्लाने के कारण को खोजते हुए ( राजा ने ) बाण से विधा हुआ तथा घड़ा लिये मुनिपुत्र श्रवणकुमार को देखकर वह भूपाल दुःख के कारण ऐसा हो गया मानो इनको ही हृदय में बाण लगा हो ॥७५।।