________________
नवमः सर्गः संजी०-नृपतेरिति । तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतस्कर्म गजवधरूपं पक्तिरथो दशरथो विलङ्घय 'लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्' इति शास्त्रमुल्लङ्घ्य कृतवान् । ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति । श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः सन्तः । न पन्था इत्यपथम् । ‘पथो विभाषा' (पा. ५।४।७२ ) इति वा समा. सान्तः । 'अपथं नपुंसकम् ' ( पा. ।२।४३० ) इति नपुंसकम् । 'अपन्थास्त्वपथं तुल्ये' इत्यमरः । तस्मिन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः । वैतालीयं वृत्तम् ॥७४॥
अन्वयः-यत् नृपतेः प्रतिषिद्धमेव तत् पंक्तिरथः विलय कृतवान् हि श्रुतवन्तः अपि रजोनिर्मालिताः सन्तः अपथे पदम् अर्पयन्ति ।
व्याख्या-यत्-कर्म नृपतेः राज्ञः क्षत्रियस्येत्यर्थः प्रतिषिद्धं निषिद्ध धर्मशास्त्रविरुद्धत्वादित्यर्थः, एवेति निश्चये तत्-कर्म हस्तिवधरूपमित्यर्थः पञ्चद्वयं प्रमाणमस्येति पक्तिः दशसंख्या। पंक्तिषु-दशसु दिक्षु रथो यस्य स पंक्तिरथ:राजा दशरथः विलंध्य-उल्लंघ्य 'लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यादिति शास्त्रमिति शेषः, कृतवान् विहितवान् । हि-यतः श्रुतं-शास्त्रमस्ति येषां ते श्रुतवन्तः =विद्वांसः अपि रजसा-रजोगुणेन निमीलिताः व्याप्ताः इति रजोनिमीलिताः सन्तः न पन्था इति अपथम् तस्मिन् अपथे अमार्गे पदं-चरणम् अर्पयन्ति निक्षिपन्ति । अमार्गे प्रवृत्ता भवन्तीत्यर्थः ।
समासः-पंक्तिषु गतः रथः यस्य स पंक्तिरथः । रजसा निमीलिताः रजोनिमीलिताः । न पन्थाः इत्यपथम्, तस्मिन् अपथे । नन् पातीति नृपतिस्तस्य नृपतेः।
हिन्दी-जो कार्य राजा के लिये निषिद्ध ( वर्जित ) है, वही कार्य ( राजा को युद्ध से अन्यत्र हाथी मारना शास्त्र से वर्जित है )। राजा दशरथ ने शास्त्र का उल्लंघन करके किया। "इसलिये कि" विद्वान् लोग भी रजोगुण से प्राच्छादित होकर कुमार्ग में प्रवृत्त हो ही जाते हैं ॥७४॥ हा तातेति क्रन्दितमाकण्यं विषण्ण
स्तस्यान्विष्यन्वेत सगूढं प्रभवं सः ।