________________
नवमः सर्गः
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः । तस्मै द्विजेतर तपस्थिसुतं बलाद्भि
रात्मानमक्षर पदैः कथयांबभूव ।।७६।। संजी०-तेनेति । प्रथितान्वयेन प्रख्यातवंशेन । एतेन पापभीरुत्वं सूचितम् । तेन राज्ञा तुरगादवतीर्य पृष्टान्वयो ब्रह्महत्याशङ्कया पृष्टकुलः । जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञ स्खलद्भिः। अशक्तिवशादोच्चारितरित्यर्थः । अक्षरप्रायः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयांबभूव । न तावत् त्रैवर्णिक एवाहमस्मि, किंतु करणः । 'वैश्यात्तु करणः शूद्रयां' (आचार.४।९२) इति याज्ञवल्क्यः । कुतो ब्रह्महत्येत्यर्थः । तथा च रामायणे-( अयोध्या.६३१५० ) 'ब्रह्महत्याकृतं पापं हृदयादपनीयताम् । न द्विजातिरहं राजन् ! मा भूत्ते मनसो व्यथा ॥ शूद्रयामस्मि वैश्येन जातो जनपदाधिप !।' इति ॥७६।। ___ अन्वयः-प्रथितान्वयेन तेन तुरगात् अवतीर्य पृष्टान्वयः जलकुम्भनिषपणदेहः सः तस्मै स्खलद्भिः अहरपदैः श्रात्मानं द्विजेतरतपस्विसुतं कथयांबभूव ।
व्याख्या-प्रथितः प्रसिद्धः अन्वयः वंशः यस्य स प्रथितान्वयः, तेन प्रथितान्वयेन तेन-राज्ञा दशरथेन, तुरेण-त्वरया गच्छतीति तुरगस्तस्मात् तुरगात्= अश्वात् अवतीर्य-भूमिमागत्य पृष्टः- अनुयुक्तः अन्वयः = वंशः यस्य स पृष्टान्वयः ब्राह्मणहननशकया पृष्टकुल इत्यर्थः, जलेन पूर्णः जलपूर्णः, जलपूर्णः कुम्भः जलकुम्भः ( शाकपार्थिवादित्वात् पूर्णपदस्य लोपः ) जलकुम्भे-जलभरितकलशे निषण्णः = पतितः देहः-शरीरं यस्य स जलकुम्भनिषण्णदेहः सः-मुनिपुत्रः तस्मै= राज्ञे दशरथाय स्खलद्भिः शिथिलैः असामर्थ्यात् अर्वोच्चारितरित्यर्थः । अक्षरप्रायाणि पदानीति अक्षरपदानि तैः अक्षरपदैः न तु, समग्रपदैः, प्रात्मानं -स्व. द्वाभ्यां जन्मसंस्काराभ्यां जायन्ते इति द्विजाः द्विजेभ्यः-ब्राह्मणक्षत्रियवणिग्भ्यः इतरस्य-भिन्नस्य तपस्विनः-मुनेः सुतः पुत्रः इति तं कथयांबभूव-उक्तवान् । अहं त्रैवर्णिको नास्मि, किन्तु वैश्यात् शूद्रायां समुत्पन्नः करणोऽस्मीति मयि हते ब्रह्महत्याकृतं पापं भवता नाशंकनीयमिति ।