________________
नवमः सर्गः
विस्मृतान्यकरणीयम् । सचिवैः अवलम्बिता धूः यस्य स तं सचिवावलम्बितधुरम् । परिवृद्धः रागः यस्य स परिवृद्धरागस्तं परिवृद्धरागम् । धरायाः अधिपः धराधिपस्तं धराधिपम् । अनुबन्धं सेवा तया अनुबन्धसेवया।
हिन्दी-इस प्रकार अपने दूसरे काम को भूले हुए, और मन्त्रियों पर राज्यभार छोड़े हुए, तथा निरन्तर सेवन करने से (शिकार पर ) अधिक आसक्तिवाले, पृथिवीपति दशरथ को आखेट ( शिकार ) ने चतुर स्त्री की तरह अपने वश में कर लिया । अर्थात् सब भूलकर शिकार खेलने में ही लगे रहे ॥६९
म ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकामनाथाम् । नपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥७०।।
संजी०–स इति । स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि।। शय्या यस्यां ताम् । ज्वलिताभिर्महौषधिभिरेव दीपिकाभिः सनाथाम् । तत्प्रधानामित्यर्थः । त्रियामां रात्रि क्वचिदसमेतपरिच्छदः । परिहृतपरिजनः सन्नित्यर्थः । अतिवाहयांबभूव गमयामास । पुष्पिताग्रावृत्तम् ॥७०॥ ____ अन्वयः-स नरपतिः ललितकुसुमप्रवालशय्याम, ज्वलितमहौषधिदीपिकासनाथाम् त्रियामाम् कचित् असमेतपरिच्छदः सन् अतिवायांबभूव ।
व्याख्या-सः पूर्वोक्तः नराणां मनुष्याणां पतिः स्वामी इति नरपतिः= दशरथः ललितानि = मनोहराणि कोमलानीत्यर्थः कुसुमानि-पुष्पाणि प्रवालानि पल्लवानि एव शय्या-शयनीयं यस्यां सा तां ललितकुसुमप्रवालशय्याम्, ज्वलिताः दीप्ताश्च ताः महौषधयः संजीविनीप्रभृतय एव दीपिकाः-दीपाः इति ज्वलितमहौषधिदीपिकाः, ताभिः सनाथा- युक्ता तां ज्वलितमहौषधिदीपिकासनार्थी, त्रयो यामा यस्यां सा त्रियामा, त्रीन्-धर्मादीन् यापयति-निरवकाशीकरोतीति वा त्रियामा तां त्रियामां-रात्रि क्वचित्-प्रदेशे काले च समेताः संगताः परिच्छदाः= परिजनाः यस्य स समेतपरिच्छदः न समेतपरिच्छद इति असमेतपरिच्छदः-त्यक्तपरिजनः सन् अतिवाहयांबभूव-गमयामास ।।
समास:-नराणां पतिः नरपतिः । ललितानि कुसुमानि प्रवालानि एव शय्या यस्यां सा तां ललितकुसुमप्रवालशय्याम् । ज्वलिताः महौषधय एव दीपिकाः; इति ज्वलितमहौषधिदीपिकास्ताभिः सनाथा, तां ज्वलितमहौषधिदीपिकासनाथाम् ।