________________
३१२
रघुवंशमहाकाव्ये त्रयः यामाः यस्याः सा तां त्रियामाम् । समेताः परिच्छदाः यस्य स समेतपरिच्छदः, न समेतपरिच्छद इति असमेतपरिच्छदः ।
हिन्दी-पाखेट के प्रेमी नरेन्द्र दशरथ ने अपने सेवकों को छोड़ मकेले ही कभी-कभी कहीं पर तीन पहर वाली उस रात्रि को बिताया, जिसमें कि कोमल फुलपत्ते ही शय्या थी और जलती हुई संजीवनी आदि जड़ी बूटी छोटे-छोटे दीपक थे । अर्थात् राजा को फूल-पत्ते बिछाकर संजीविनी के प्रकाश में अकेले ही रात बितानी पड़ी ।।७०॥
उपसि स गजयूथकर्णतालैः पटुपटहनिभिविनीतनिद्रः । अरमत मधुराणि तत्र शृण्वन्विहविकूजितबन्दिमङ्गलानि ।। ७१।।
उषसीति । उपसि प्रातः पटूना पटहानामिव ध्वनिर्येषां तैर्गजयूथानां कर्णरेव तालाद्यप्रभेदैविनीतनिद्रः स नृपस्तत्र वने मधुराणिं विहगानां विहंगानां विकूजितान्येव बन्दिनां मङ्गलानि अङ्गलगीतानि शृण्वन्नरमत ॥७१॥
अन्वयः---उपसि पटुपटहन निभिः विनीतनिद्रः सः, तत्र मधुराणि विहगविकूजितबन्दिमंगलानि शृण्वन् अरमत ।
व्याख्या -पट इति शब्दं जहतीति पटहाः, पटूनां दक्षाणां-प्रशस्तध्वनिमतामित्यर्थः पटहानां-दुन्दुभीनामिव ध्वनिः शब्दो येषां ते तैः पटुपटहध्वनिभिः । गजानां हस्तिनां यथानि-समूहाम्लेषां कर्णाः- श्रोत्राणि एव तालाः-वाद्यप्रभेदाः इति गजयथकर्णतालास्तैः गजयथकर्णतालैः । विनीता-अपगतः विनष्टा निद्रा स्वापः यस्य स विनीतनिद्रः सः == राजा दशरथः तत्र-अरण्ये मधुराणि-मनोहराणि, बन्दिनां स्तुतिपाठकानां मंगलानि-मंगलगीतानि इति बन्दिमंगलानि । विहगानां पक्षिणां विकूजितानि विरुतानि एव बन्दिमंगलानि, इति विहगविकूजितमंगलानि शृण्वन् आकर्णयन् अरमत रेमे। ___समासः-पटूनां पटहानां ध्वनिरिव ध्वनिः येषां ते तैः पटुपटहध्वनिभिः । गजानां यथानि तेषां कर्णाः इति गजयूथकर्णास्ते एव तालास्तैः गजयूथकर्णतालः । विनीता निद्रा यस्य स विनीतनिद्रः । बन्दिनां मंगलानि, बन्दिमंगलानि । विहगानां विकूजितानि एव बन्दिमंगलानीति विहगविकूजितबन्दिमंगलानि, तानि ।
हिन्दी-प्रातःकाल, तेज नगाड़ों के समान शब्द करने वाले, हाथियों के