________________
रघुवंशमहाकाव्ये आननविलग्नजालकम् । तुषाराणां शीकरैः सह वर्तमानः सतुषारशीकरः । भिन्नाः पल्लवानां पुटाः येन स भिन्नपल्लवपुटः । वनस्य अनिलः वनानिलः ।
हिन्दी-कठोर परिश्रम से निकले हुए, और राजा के मुख में छाये हुए पसीने को शीतल जल की बून्दों वाले तथा पत्तों के पुटों को विकसित करने वाले वन के पवन ने चाट लिया । अर्थात् राजा के मुख के पसीने को शीतल मन्द सुगन्ध पवन ने सुखा दिया ॥६॥
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् । परिवृद्धगगमनुबन्धसे वया मृगया जहार चतुरेव कामिनी ॥६॥
संजी०–इतीति । इति पूर्वोक्तप्रकारेण । प्रात्मनो विस्मृतमन्यत्करणीयं कार्य येन तम् । विस्मृतात्मकार्यान्तरमित्यर्थः । सचिवैरवलम्बिता धृता धूर्यस्य तम् । 'ऋक्पूरब्धःपथामानक्षे' ( पा. ५।४।७४ ) इति समासान्तोऽच्प्रत्ययः । अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम् । मृग्यन्ते यस्यां मृगा इति मृगया। 'परिचर्यापरिसर्यामृगयाटाटयादीनामुपसंख्यानम्। ( वा. २२१५ ) इति शप्प्रत्ययान्तो निपातः। चतुरा विदग्धा कामिनीव । जहाराचकर्ष । 'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवमेव भूय एवाभिवर्धते ।' इति भावः ॥६९॥
अन्वयः-इति आत्मनः विस्मृतान्यकरणीयं सचिवावलम्बितधुरं अनुबन्धसेवया परिवृद्धरागं नराधिपं मृगया चतुरा कामिनी इव जहार । ___ व्याख्या-इति-पूर्वोक्तप्रकारेण आत्मनः स्वस्य विस्मृतानि अन्तर्गतानि= प्रचिन्तितानीत्यर्थः अन्यानि अपराणि करणीयानि कार्याणि येन स तं विस्मृतान्यकरणीयम् सचिवैः मन्त्रिभिः अवलम्बिता-धृता धूः राज्यभारो यस्य स तं सचिवावलम्बितधुरं, अनुबन्ध-सततं सेवा-सेवनं भजनमिति अनुबन्धसेवा तया अनुबन्धसेवया निरन्तरमृगयाखेलनेनेत्यर्थः, परिवृद्धः- वृद्धि गतः रागः अनुरागः= तृष्णेत्यर्थः यस्य स तं परिवृद्धरागम् धरायाः- पृथिव्याः अधिपः- स्वामी तं घराधिपम् = दशरथम् चतुरा-विदग्धा कामिनी- सुन्दरी इव- यथा जहार-पाचकर्ष ।
समासः- विस्मृतम् अन्यत् करणीयं येन स विस्मृतान्यकरणीयः, तं