________________
नवमः सर्गः
૨૧૨ . अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ।।५।।
संजी० -अथेति । अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः । रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेव गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव । 'स्युनभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः' इत्यमरः । अधिज्यमधिगतमौर्वीकं धनुरुपाददे जग्राह ॥५४॥
अन्वयः-अथ अनाधिः नरवरः रवरोषितकेसरी कनकपिङ्गतडिद्गुणसंयुतम् त्रिदशायुधम् नभस्य इव अधिज्यं धनुः उपाददे ।
व्याख्या-पाधीयते दुःखमनेनेति आधिः । नास्ति प्राधिः मनोव्यथा यस्य सः अनाधिः । नरेषु-पुरुषेषु वरः श्रेष्ठः इति नरवरः । केसराः स्कन्धबालाः सन्त्यस्यासौ केसरी, रवेण-धनुष्टंकारेण रोषिताःकोपिताः केसरिणः सिंहाः येन स रवरोषितकेसरी, राजा दशरथः कनकम्-सुवर्णमिव पिंग:-पिशंगः पिंगलवर्णः यस्तडित्-विद्युदेव गुणः मौर्वी इति कनकपिंगतडिद्गुणः, तेन संयुतं संयुक्तं बद्धमित्यर्थः । त्रोन् तापान् दिशतीति त्रिदशः । त्रिदशस्य-इन्द्रस्य आयुध= धनुरिति तत् त्रिदशायुधम् नभाः अभ्रमस्यास्तीति नभस्यः भाद्रपदमास इव-यथा ज्याम्=मौर्वीम् . अधिगतम् आरोपितमिति अधिज्यम् = आरोपितमौर्वीकम् धनुः= चापम् उपाददे–जग्राह-स्वीचकारेत्यर्थः ।।
समासः-न विद्यते आविर्यस्य सोऽनाधिः । नरेषु वरः नरवरः । रवेण रोषिताः केसरिणः येन स रवरोषितकेसरी । कनकमिव पिङ्गः यस्तडिदेव गुणस्तेन संयुतमिति कनकपिंगतडिद्गुरणसंयुतम्, तत् । तिस्रः दशाः यस्य स त्रिदशः, त्रिदशस्य आयुधं त्रिदशायुधम्, तत् ।
हिन्दी-मानसिक पीड़ा से रहित पुरुषों में श्रेष्ठ, तथा अपने धनुष की टंकार से सिंहों को क्रोधित करने वाले, दशरथ ने डोरी चढ़े धनुष को सम्भाल लिया, उस समय राजा ऐसे लग रहे थे, मानो सोने के रंग की पीली बिजली. रूपी डोरी से युक्त इन्द्र धनुष को धारण किये भाद्रपद मास हो ॥५४॥