________________
२१४
रघुवंशमहाकाव्ये तम्य स्तनप्रणयिभिर्मुहुरेणशाव
ाहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगवितकृष्णसारम् ॥५५॥ संजी०-तस्येति । स्तनप्रणयिभिः स्तनपायिभिरेणशावैहरिणशिशुभिः । 'पृथुकः शावकः शिशः' इत्यमरः । व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत् । कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम् । तस्य युथस्याग्रसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत् । मृगाणां यूथं कुलम् । 'सजातीयः कुलं यूथं तिरश्चां पुनपुंसकम्' इत्यमरः, तस्य दशरथस्य पुरस्तादग्र आविर्बभूव । वसन्ततिलका वृत्तम् ॥५५॥
अन्वयः--स्तनप्रणयिभिः एणशावैः व्याहन्यमानहरिणीगमनं कुशगर्भमुखं तदग्रसरगवितकृष्णसारम् मृगाणां यूथं तस्य पुरस्तात् आविर्बभूव । ___ व्याख्या-स्तनेषु प्रणयः स्तनप्रणयः स्तनानां प्रणयः स्तनप्रणय इति वा। स्तनप्रणयोऽस्ति येषां ते स्तनप्रणयिनस्तैः स्तनप्रणयिभिः स्तनन्धयः एणानां= हरिणानां शावकाः शिशवस्तैः एणशावकः, विशेषेण प्रासमन्तात् हन्यते । यत् तत् व्याहन्यमानं भूयो भूयः प्रतिषिध्यमानं हरिणीनां मृगीणां गमनं गतिर्यस्य तत् व्याहन्यमानहरिणीगमनम् । कुशाः=दर्भाः गर्भ मध्ये येषां तानि कुशगर्भाणि, कुशगर्भाणि मुखानि प्राननानि यस्य तत् कुशगर्भमुखम् । कृष्णेन सारः शबलः इति कृष्णसारः । अग्रे सरतीति अग्रसरः गर्वः संजातोऽस्यगर्वितः । तस्य- यूथस्य अग्रसर:=पुरःसरः इति तदग्रसरः, तदग्रसरश्वासौ गर्वितः= दृप्तश्च कृष्णसारः मृगविशेषो यस्य तत् तदग्रसरगर्वितकृष्णसारम्, मृगारणां-हरिणानां यथं कुलम् तस्य- दशरथस्य राज्ञः पुरस्तात् अग्रे आविर्बभूव-प्रादुर्बभूव ।
ममसः-स्तनानां प्रणयः स्तनप्रणयः, स्तनप्रणयोऽस्ति येषां ते स्तनप्रणयिनस्तैः स्तनप्रणयिभिः । एणानां शावास्तै : एणशावैः । व्याहन्यमानं हरिणीनां गमनं यस्य तत् व्याहन्यमानहरिणीगमनम् । कुशाः गर्भे येषां तानि, कुशगर्भारिण कुशगर्भाणि मुखानि यस्य तत् कुशगर्भमुखम् । तस्य॑ अग्रसरः गर्वितश्च कृष्णसारो यस्य तत् तदग्रसरगर्वितकृष्णसारम् ।