________________
२६२
रघुवंशमहाकाव्ये कूपजलाशये' इत्यमरः । मृगेहॅरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषश्रोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥५३॥
अन्वयः-सः श्वगणिवागुरिकैः प्रथमास्थितम् व्यपगतानलदस्यु स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनं विवेश ।
व्याख्या-सः राजा दशरथः शुना-कुक्कुराणां गणः = समूहः एषामस्तीति श्वगणिनः । अवागुरते इति वागुरा ( भागुरिमते अकारलोपः ) वागुरया= मृगबन्धन्या चरन्तीति वागुरिकाः । श्वगणिनश्च वागुरिकाश्च श्वगणिवागुरिकास्तैः श्वगणिवागुरिकः प्रथम-पूर्वम् आस्थितम् अधिष्ठितमाक्रान्तमित्यर्थः, इति प्रथमास्थितम् । विशेषेण अपगता:-नष्टाः-अपसारिताः अनला:-दावाग्नयः दस्यवः-चौराश्च यस्मात् तत् व्यपगतानलदस्यु, स्थिरा-दृढा-कर्दमादिरहिता तुरंगमस्य-अश्वस्य योग्या-भूमिः स्थानं यत्र तत् स्थिरतुरंगमभूमि= अश्वगमनयोग्यस्थानमित्यर्थः । नियतं पिबन्ति जलं मृगादयो यत्र तत् निपानं, निपानमस्ति यत्र तत् निपानवत्-आवाहयुक्तम् कूपसमीपे जलाशयवदित्यर्थः । मृगाः-हरिणाः वयांसि पक्षिणः गवयाः गोसदृशाः पारण्यपशवश्चैतेषां द्वन्द्वः मृगवयोगवयाः। मृगवयोगवयैः उपचितं = समृद्धं-पूर्णम् इति मृगवयोगवयोपचितम्, वनम् अरण्यं विवेश प्रविष्टवान् ।।
समासः-शुनां गणः श्वगणः श्वगणः अस्ति येषां ते श्वगणिनः श्वगणिनश्च वागुरिकाश्च श्वगरिणवागुरिकास्तैः श्वगणिवागुरिकः । व्यपगताः अनलाः दरयवश्च यस्मात् तत् व्यपगतानलदस्यु तत् । तुरंगमानां योग्या तुरंगमयोग्या चासौ भूमिः, तुरंगमभूमिः ( शाकपार्थिवादित्वात् योग्यपदस्य लोपः ) स्थिरा तुरंगमभूमिः यस्य तत् स्थिरतुरंगमभूमि । मृगाश्च वयांसि च गवयाश्चेत्येषां द्वन्द्वः मृगवयोगवयास्तैः उपचितमिति मृगवयोगवयोपचितम्, तत् ।
हिन्दी-राजा दशरथ, मृगों, पक्षियों तथा जंगली गायों से परिपूर्ण उस वन में प्रविष्ट हो गये, जिसमें शिकारी कुत्ते और जाल को लेकर चलने वाले सेवक पहले ही पहुँच गये थे, और उस वन से अग्नि तथा चोरों का भय दूर कर दिया गया था, तथा वहां की भूमि पक्की अत एव घोड़ों के चलने योग्य एवं पीने के जल से भरे ताल वाली थी॥५३॥