________________
नवमः सर्गः
२८७
समासः-मधु मथ्नातीति मधुमद् । मननं मत्-चेतना। मथतीति मथः । मतः मथः मन्मथः। मधुमत् च मधुश्च मन्मथश्चेति द्वन्द्वः । तेषां सन्निभः इति मधुमन्मधुमन्मथसन्निभः । नराणां पतिः नरपतिः। विलासवत्यः सखायो यस्य स विलासवतीसखः । मृगयायां रतिस्तां मृगयारतिम् ।
हिन्दी-इस के पश्चात्, विष्णु के समान पराक्रमी और वसन्त के समान प्रसन्न तथा कामदेव के समान सुन्दर राजा दशरथ ने सुन्दर स्त्रियों के साथ वसन्तोत्सव का खूब आनन्द लेकर ( वसन्तोत्सव मनाकर ) शिकार खेलने को इच्छा को ॥४८॥
व्यसनासङ्गदोषं परिहरन्नाहपरिचयं चललक्ष्य निपातने भयरुषोश्च तदिङ्गितबोधनम् । श्रमजयात्पगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥४९॥
संजी०-परिचयमिति । असौ मृगया। चललक्ष्याणि मृगगवयादीनि । तेषां निपातने परिचयमभ्यासं करोति । भयरुषोभयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति । तनुं शरीरं श्रमस्य जयानिरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति । अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन् । ययौ । सर्व चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः । न तु व्यसनितयेति भावः ॥४९॥ ___ अन्वयः-असौ चललक्ष्यनिपातने परिचयं करोति भयरुषोश्च तदिङ्गितबोधनं करोति, तनुं च श्रमजयात् प्रगुणां करोति अतः सचिवैः अनुमतः सन् ययौ।
व्याख्या-असौ-मृगया, लक्ष्यन्ते इति लक्ष्याणि-शरव्यानि चलानि चञ्चलानि (चलन्ति वा) च यानि लक्ष्याणि लक्षाणि तेषां निपातनं अवनयनम् = अधोनयनं मारणमित्यर्थः । तस्मिन् चललक्ष्यनिपातने। परिचयम् = अभ्यास करोति विदधाति । भयं भीतिः रुट क्रोधश्च तयोः भयरुषोः चः समुच्चये । इंगनम् इंगितम् । तेषां चललक्ष्याणाम् इंगितं-चेष्टा, इति तदिङ्गितं तस्यबोधनं= ज्ञानमिति तदिङ्गितबोधनं करोति । भयक्रोधादिचेष्टायाः ज्ञानं करोतीत्यर्थः । तन्यते, तनोति वा तनुस्ता तनुं शरीरं च श्रमस्य खेदस्य जयःनिरासनं वस्मात्