________________
२८८
रघुवंशमहाकाव्ये श्रमजयात् प्रकृष्टः गुणः लाघवादिः यस्यां सा तां प्रगुणां करोति । मृगया शरीरस्य लाघवं स्फूर्तिमत्त्वं च करोतीत्यर्थः । अतः अस्माद्धेतोः सचनं सचिः, सचि-समवायं वान्तीति सचिवास्तैः सचिवैः-मंत्रिभिः अनुमतः- संमत: अनुमोदितः सन् ययौ= जगाम । प्राखेटे बहवः गुणाः सन्तीति तत्र दशरथस्य प्रवृत्तिर्जाता न तु व्यसनित्वादित्यर्थ ।
समासः-चलानि तानि लक्ष्याणि, इति चललक्ष्याणि तेषां निपातनं तस्मिन् चललक्ष्यनिपातने। भयं च रुटच भयरुषो तयोः भयरुषोः । तेषाम् इंगितस्य बोधनमिति तदिगितबोधनम् तत् । श्रमस्य जयस्तस्मात् श्रमजयात् ।
हिन्दी–शिकार खेलने से चलते हुवे लक्ष्य को बेधने मारने का अभ्यास होता है। और जीवों के भय तथा क्रोध आदि चेष्टाओं का ज्ञान होता है। तथा श्रम ( थकावट ) को जीतने से शरीर फुर्तिला एवं दृढ़ होता है। इसलिये मंत्रियों से सम्मति लेकर राजा शिकार के लिये चले गये ॥४९।।
मृगवनोपगम क्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः । गगनमश्वखुरोद्धतरेणुभिसविता स वितानमिवाकरोत् ।।५०॥
मंजीo-मृगेति । मृगाणां वनं तस्योपगमः प्राप्तिः तस्य क्षममहं वेषं बिभर्तीति स तथोक्तः । मृगयाविहारानुगुणवेषधारीत्यर्थः । विपुलकण्ठे निषक्तशरासनो लग्नधन्वा । ना सवितेव नृसविता पुरुषश्रेष्ठः । उपमितसमासः । स राजाऽश्वखुरोद्धतरेणुभिगंगनं वितानं तुच्छमसदिवाकरोत् । गगनं नालक्ष्यतेत्यर्थः । 'वितानं तुच्छमन्दयोः' इति विश्वः । अथवा-'सवितानम्' इत्येकं पदम् । सवितानमुल्लोचसहितमिवाकरोत् । 'अस्त्री वितानमुल्लोचः' इत्यमरः ॥५०॥
अन्वयः-मृगवनोपगमक्षमवेषभृत् विपुलकण्ठनिषक्तशरासनः नृसविता स अश्वखुरोद्धतरेणुभिः गगनं वितानम् इव अकरोत् ।
व्याख्या-मृग्यन्ते व्याधैरिति मृगाः। मृगाणां हरिणानां वनं काननमिति मृगवनं तस्य उपगमः प्राप्तिरिति मृगवनोपगमः । तस्य क्षम-योग्यं वेषं नेपथ्यं = परिधानमित्यर्थः बिभर्ति-धारयतीति मृगवनोपगमक्षमवेषभृत् । शृणाति हिंसां करोति यस्ते शराः । शराः-बाणा अस्यन्ते-क्षिप्यन्ते येन तत् शरासनम् । कणति=