________________
२८६
रघुवंशमहाकाव्ये काकः भृताः-पुष्टास्ताभिः परभृताभिः कोकिलाभिः निवेदिते कथिते सति इव यथा वधूनां-स्त्रीणां जनः-समूह इति वधुजनः रमते स्म रेमे । कोकिलकूजितश्रवणानन्तरं उद्दीपितस्मरः स्त्रीजनः स्मराज्ञापयादिवाखेलदित्यर्थः ।
समासः-परैः भृतास्ताभिः परभृताभिः । वधूनां जनः वधूजनः ।
हिन्दी-हे स्त्रियों ! अभिमान को छोड़ दो और लड़ाई झगड़ा न करो बीता हुआ मौजबहार के योग्य यौवन फिर लौटकर नहीं आयेगा। मानो इस प्रकार से कामदेव की आज्ञा कोयलों के बता देने पर सभी स्त्रियां अपने पतियों के साथ रमण करने लगीं। अर्थात् कामोद्दीपक कोकिलाओं का शब्द सुनकर स्त्रियां मानो कामदेव की प्राज्ञा के भय से उच्छृङ्खलता पूर्वक खेलने लगीं ॥४७॥
अथ यथासुग्वमातवमुत्सवं समनुभूय विलासवतोसवः । नरपतिश्चक मृगयारति म मधुमन्मधुमन्मथसंनिभः ।।४८।।
संजी०-अथेति । अथानन्तरं मधुमथ्नातीति मधुमद्विष्णुः। संपदादित्वात्विवप् । मधुर्वसन्तः । मथ्नातीति मथः। पचाद्यचू । मनसो मथो मन्मथः कामः । तेषां संनिभः । सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विला. सवतीसखः स्त्रीसहचरः सन् । ऋतुः प्राप्तोऽस्यार्तवः । तमुत्सवं वसन्तोत्सवं यथासुखं समनुभूय मृगयारति मृगयाविहारं चकम आचकाङ्क्ष ॥४८॥
अन्वयः-अथ मधुमन्मधुमन्मथसन्निभः स नरपतिः विलासवतीसखः सन् आर्तवम उत्सवं समनुभूय मृगयारतिं चकमे ।
व्याख्या-मधुं- दैत्यं मथ्नातीति मधुमत् । मनसो मथः मन्मथः । मधुमत्= विष्णः मधुः वसन्तः मन्मथः-कामः एतेषामितरेतरयोगः मधुमन्मधुमन्मथास्तेषां सन्निभः सदृशः इति मधुमन्मधुमन्मथसन्निभः सः पूर्वोक्तः नराणां मनुष्याणां पतिः स्वामी नरपतिः-राजा दशरथः । विलासाः विभ्रमाः हावभावादिचेष्टा; सन्ति यासु ताः विलासबत्यः स्त्रियः सखायः सहचराः यस्य स विलासवतीसखः सन् ऋतुः प्राप्तोऽस्य स आर्तवस्तम् प्राविम्-ऋतुसंबन्धिनम् उत्सवं वसन्तोत्सवं समनुभूय-सम्यक प्रकारेण अनुभवं कृत्वा, मृग्यन्ते अन्विष्यन्ते यत्र सा मृगया आखेटकं तत्र रति-विहारं चकमे आचकाङ्क्ष ।