________________
२८५
नवमः सर्गः पीठस्य रज्जुः गुणः तस्याः परिग्रहः ग्रहणं तस्मिन् सनरज्जुपरिग्रहे भुजः= बाहुः लता-व्रततिः इवेति भुजलता तां भुजलतां जलस्य भावः जलता तां जलतां डलयोरभेदात् जड़तां शैथिल्यम् अनयत् = प्रापत् । दोलाक्रीडावसरे पतनभयव्याजेन प्रियस्य कण्ठालिंगनमकरोदित्यर्थः ।
हिन्दी-नए भूले वाले वसन्तोत्सव को अनुभव करता हुआ ( भूले परभूलता हुआ) स्त्रीसमुदाय भूलने में चतुर होते हुवे ( अर्थात् भूले की रस्सी को मजबूती से पकड़े हवे ) भी अपने प्रेमी का आलिंगन करने की इच्छा से झूले की डोरी को पकड़ने में अपनी भुजलता को ढीला कर दिया। अर्थात् गिरने के डर का बहाना करके प्रियके गले से लिपट गई ॥४६॥
त्यजत मानमलं बत विग्रहै न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते म्मरमते रमते स्म वधूजनः ॥४७॥
संजी०--त्यजतेति । 'बत'इत्यामन्त्रणे । 'खेदानुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः। बत अङ्गना मानं कोपं त्यजत । तदुक्तम्-'स्त्रीणामीाकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इति । विग्रहैविरोधरलम् । न विग्रहो कार्य इत्यर्थः । गतमतीतं चतुरमुपभोगक्षम वयो यौवनं पुन: ति नागच्छति । इत्येवंरूपे स्मरमते स्मराभिप्राये । नपुंसके भावे क्तः । परभृताभिः कोकिलाभिनिवेदिते सतीव वधूजनो रमते स्म रेमे । कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ॥४७॥
अन्वयः-बत ( अंगनाः ) मानं त्यजत विग्र है: अलम गतं चतुरं वयः पुनः न एति, इति स्मरमते परभृताभिः निवेदिते सति इव वधूजनः रमते स्म । __ व्याख्या-बत-आमत्रणे, अर्थात् भो अंगनाः ! मानं-कोपं त्यजत-उज्झत, विरुद्धं विविधं वा ग्रहणमिति विग्रहः । विग्रहै: विरोधः अलम् व्यर्थ विरोधो न कर्तव्य इत्यर्थः । गतं व्यतीतं चतुरं-दक्षम् = उपभोगसमर्थमित्यर्थः । नयते, अजति वा वयः यौवनं पुनः = भूयो नैति=नागच्छति इति = एवं रूपे स्मरयति = उत्कण्ठतीति स्मरः, स्मरस्य कामस्य मतम् अभिप्रायस्तस्मिन् स्मरमते, परैः