________________
२८४
रघुवंशमहाकाव्ये सुगन्धि क्षोदमित्यर्थः पुनातीति पवन: पवनेन वायुना सहितं यत् उपवनम् = पारामः कृत्रिमवनमित्यर्थः, इति सपवनोपवनं तरिपन् उत्थितः उत्पन्नः प्रोद्यतः तं सपवनोपवनोत्थितं कुसुमानां-पुष्पाणां केसराः किंजल्कास्तेषु रेणुः-परागस्तं कुसुमकेसररेणुम् अन्वयुः पश्चादगच्छन् ।
समासः-अलीनां व्रजाः अलिव्रजाः। धनुषः भृत् तस्य धनुर्भूतः । ऋतोः श्रीः तस्याः ऋतुश्रियः । मुखार्थ चूर्णमिति मुखचूर्णम् । पवनेन सहितमिति सपवनं यदुपवनमिति सपवनोपवनं तत्र उत्थितः तं सपवनोपवनोत्थितम् । कुसुमानां केसरः कुसुमकेसरस्तस्य रेणुस्तं कुसुमकेसररेणुम् ।
हिन्दी-भौरों के झुण्ड वायुके साथ उपवन से उडे हुए, फूलों के केसर की धूली ( पुष्पपराग ) के पीछे २ उड़ चले। उड़ता हुमा वह पराग ऐसा जान पड़ता था" मानो धनुषधारी कामदेव की पताका और वसन्त की लक्ष्मी की शोभा करने वाला मुख का अलंकार भूत सुगन्धित चूर्ण ( पाउडर ) हो ।।४५।।
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रिय कण्ठजिघृक्षया । थनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ।।४६।।
संजी०-अनुभवन्निति । नवा दोला प्रेङ्खा यस्मिस्तं नवदोलमृतूत्सवं वसन्तो. त्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छया आसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यम् । डलयोरभेदः । अनयत् दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ॥४६॥ ___ अन्वयः-नवदोलम् ऋतूत्सवम् अनुभवन् अबलाजनः पटुः अपि प्रियकण्ठजिघृक्षया आसनरज्जुपरिग्रहे सुजलतां जलताम् अनयत् ।।
व्य ख्या-दोलयति, दोल्यते वा दोला। नवा-नूतना दोला-प्रेङ्खा यस्मिन् स तं नवदोलम्, तो:- वसन्तस्य उत्सवः- क्षणः इति तं ऋतूत्सवम्, उत्सुवति -प्रेरयतीति उत्सवः क्षणः । अनुभवन्-उपलभमानः 'उपलम्भस्त्वनुभवः' इत्यमरः । अबलानां स्त्रीणां जनः-समुदायः इति अबलाजनः पटुरपि चतुरोऽपि । ग्रहीतुमिच्छा जिघृक्षा । प्रियस्य = वल्लभस्य कण्ठः- गलः, तस्य जिघृक्षाः प्रालिगितुमिच्छा तया प्रियकण्ठजिघृक्षया, प्रास्यते-उपविश्यतेऽत्रेति आसनम् । आसनस्य%