________________
नवमः सर्गः
२८३ मुक्ताः तः अलिजालकमौक्तिकैः सदृशी-समाना कान्तिः शोभा यस्याः सा सदृशकान्तिः अलक्ष्यत-अदृश्यत भ्रमरयुक्ता श्वेता तिलकमंजरी नीलकेशेषु संलग्नमुक्ताजालमिव अदृश्यत इत्यर्थः ।
समासः-उपचिताः अवयवाः यस्याः सा उपचितावयवा। अलीनां कदम्बकम्, अलिकदम्बकं तस्य योगस्तम् अलिकदम्बकयोगम् । तिलकात् जाता तिलकजा । सदृशी कान्तिः यस्याः सा सदृशकान्तिः । जाल एव जालकम् अलकेषु यजालकमिति अलकजालकं तस्मिन् मौक्तिकाः तैः अलकजालकमौक्तिकैः ।
हिन्दी-श्वेत पराग ( पुष्पधूलीके कण ) से बढ़ी हुई तथा भौरों के समूह के योग को प्राप्त हुई (मण्डराते भौरों से व्याप्त ) तिलक की मंजरी ( गुच्छे ) स्त्री के जूड़े में लगी मोतियों की जाली के समान कान्ति वाली दीख पड़ रही थी। अर्थात् भौरों के साथ श्वेत तिलक के गुच्छे काले काले केशों में लगे मोतियों के समान सुन्दर दीख रहे थे ॥४४॥
ध्वजपटं मदनस्य धनुर्भूतश्छविकरं मुखचूणमृतुश्रियः । कुसुमकेसररेणुमलिन जाः सपवनोपवनास्थितमन्वयुः ।।४५।।
संजी०-ध्वजेति। अलिव्रजाः षट्पदनिवहा धनुर्भूतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम् । ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकरं मुखचूर्ण मुखालंकारचूर्णभूतं सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं तस्मिन्नुत्थितम् । कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम् । अन्वयुरन्वगच्छन् । यातेर्लङ ।।४५।।
अन्वयः-अलिबजाः धनुर्भूतः मदनस्य ध्वजपटं ऋतुश्रियः छविकरं मुखचूर्ण सपवनोपवनोस्थितं कुसुमकेसररेणुम अन्वयुः । __ व्याख्या-व्रजन्तीति व्रजाः। अलीनां भ्रमराणां व्रजा: समूहाः इति अलिव्रजाः, धनु:-चापं बिभर्ति धारयतीति धनुर्भूत् तस्य धनुर्भूतः मदयतीति मदनस्तस्य मदनस्य% कामदेवस्य ध्वजति-गच्छतीति ध्वजः तस्य ध्वजस्य-पताकायाः-पटः- वस्त्रमिति तं ध्वजपटम् पताकाभूतम् तोःवसन्तस्य श्रीः- लक्ष्मीस्तस्याः ऋतुश्रियः छयति छिनत्ति वा असारमिति छविः । छवि कान्ति करोति विदधातीति छविकरस्तं छविकरम् = शोभाकरम् । मुखार्थम् अाननालंकारभूतं चूर्ण-क्षोदस्त मुखचूर्णम्