________________
२८२
रघुवंशमहाकाव्ये
त्यर्थः । यवाना धान्यानाम् अंकुराः नवोद्भिदः तैः यवांकुरैश्च, परैः काकः भृताःपुष्टाः इति परभृताः । परभृतानां कोकिलानां आ समन्तात् विरुतानि-आकूजितानि तैः परभृतविरुतैश्च, इत्येतैः स्मरस्य कामस्य बलानि सैन्यानि तैः स्मरबलः अबलासु-स्त्रीषु एकः अद्वितीयः एव रसः रागः येषां ते अबलैकरसाः स्त्रीपरायणा इत्यर्थः । कृताः विहिताः सर्वे विलासिनः स्त्रीषु एवारक्ता इत्यर्थः ।
समासः-अरुणस्य रागं निषेधन्ति तच्छीलाः तैः अरुणरागनिषेधिभिः । श्रवणेषु लब्धानि पदानि यस्तैः श्रवणलब्धपदैः। यवानाम् अंकुरास्तैः यवांकुरैः। परैः भृताः परभृतास्तेषां प्रारुतानि तैः परभृतारुतः । स्मरस्य बलानि तैः स्मरबलैः । अबलासु एक एव रसः येषां ते, अबलैकरसाः।
हिन्दी-अरुण के रंग को मात करने वाले ( प्रातःकाल के अरुण के समान लाल रंगवाले ) वस्त्र, तथा कान में रखे हुए जौ के अंकुर एवं कोयल की कूक रूपी कामदेव की सेना ने सभी विलासियों को स्त्रियों में ही एकमात्र अनुराग वाले बना दिया। अर्थात् उक्त सभी सेना ने विलासियों को स्त्रियों के के अधीन कर दिया। उनके प्रेम में डूब गये ॥४३॥
उपचितावयश शुचिभिः कणैजिकदम्ब कयोगमुपेयुषी। सहशान्तिरलक्ष्यत मजरी तिलक जालकजालकमौक्तिकैः ॥४॥
संजी०-उपचितेति । शुचिभिः शुभ्रः कण रजोभिरुपचितावयवा पुष्टावयवा । अलिकदम्बकयोगमुपेयुषी प्राप्ता । तिलकजा तिलकवृक्षोत्था मञ्जरी । अलकेषु यजालकमाभरणविशेषस्तस्मिन्मौक्तिकैः सदृशकान्तिः । अलक्ष्यत । भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नोलालकसक्तमुक्ताजालमिवालक्ष्यतेति वाक्यार्थः ॥४४॥
अन्वयः-शुचिभिः कणैः उपचितावयवा अलिकदम्बकयोगम् उपेयुषी तिलकजा मचरी अलकजालकमौक्तिकैः सदृशकान्तिः अलक्ष्यत ।
व्याख्या-शुचिभिः-शुभ्रः कणैः लवै: रजोभिरित्यर्थः उपचिताः पुष्टाः अवयवाः-अंगनि यस्याः सा उपचितावयवा अलीनां-भ्रमराणां कदम्बकं= समूहः इति अलिकदम्बकं तस्य योगः सम्बन्धस्तम् अलिकदम्बकयोगम् उपेयुषी प्राप्ता तिलकात्-तिलकवृक्षात् जाता-उत्पन्ना इति तिलकजा-मृजुत्वमृच्छतीति मजरी वल्लरिः अलकेषु केशेषु यजालकम् भूषणविशेषः तस्मिन् मौक्तिकाः=