________________
३४
रघुवंशमहाकाव्ये वाच्य-तस्य मगधवंशजया दाक्षण्यरूढेन नाम्ना अध्वरस्य दक्षिणया पत्या, इव सुदक्षिणया अभूयत । व्याख्या--तस्य =राज्ञो दिलीपस्य, मगधानां= मगधदेशाधिपानां= राज्ञां, वंशः = अन्वयस्तत्र जाता= उत्पन्ना, इति मगधवंशजा, दाक्षिण्येन =परच्छदानवर्तनेन, रूढं =प्रसिद्धं तेन दाक्षिण्यरूढेन नाम्ना=अभिधानेन, अध्वरस्य - यज्ञस्य, दक्षिणा= एतन्नाम्नी, पत्नी= भार्या,इव = यथा, सुदक्षिणा= सुदक्षिणेतिप्रसिद्धा, 'पत्नी' आसीत् = अभूत् ।।
समा०-मगधानाम् वंशः मगधवंशा, मगधवंशे जाता मगधवंशजा, दक्षिणस्य भावः दाक्षिण्यम्, दाक्षिण्येन रूटं दाक्षिण्यरूढं तेन दाक्षिण्यरूढेन ।
अभि०--राज्ञो दिलीपस्य मगधकुलोत्पन्नान्वर्थनामवती,दिलीपस्य मनोनुकला सुदक्षिणानाम्नी पत्नी, यज्ञस्य दक्षिणेवासीत् ।
हिन्दी-राजा दिलीप की, मगधकुल में उत्पन्न तथा राजा के चित्त का अनुसरण करने वाली सुदक्षिणा नाम से प्रसिद्ध पटरानी वैसी ही थी जैसी यज्ञ की पत्नी दक्षिणा ॥३१॥
कलत्रवन्तमात्मानमवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥३२॥ सञ्जीविनी--वसुधाधिपः। अवरोधेऽन्तःपुरवर्गे महति सत्यपि मनस्विन्या दृढचित्तया । पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थः। तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । वसुधाविप इत्यनेन वसुधया चेति गम्यते ॥३२॥
अन्वया-वसुषाषिपः, अवरोषे, महति, अपि, मनस्विन्या, तया, लक्ष्म्या, च, मात्मानं कलत्रवन्तं, मेने।
वाच्य-वसुधाधिपेन, अवरोधे महति, अपि, मनस्विन्या तया लक्ष्म्या च, आत्मा कलत्रवान् मेने।
व्याल्या-वसूनि = धनानि,दधाति =धारयतीति वसुधा,वसुधाया अधिपः= स्वामी, इति वसुधाधिपः अवरोघे = अन्तःपुरवर्गे, महति = अधिके, 'सत्यपि' प्रशस्तं मन अस्या अस्तीति मनस्विनी तया मनस्विन्या= दृढचित्तया पतिचित्ता