________________
प्रथमः सर्गः
नुवृत्यादिगणवत्येत्यर्थः, तया= सुदक्षिणया, लक्ष्म्या= राज्यश्रिया, च, आत्मानं = स्वं, कलत्रमस्यास्तीति कलत्रवान् तं कलत्रवन्तंभार्यावन्तं मेने-मन्यते स्म ।
समा०-वसूनि दधाति इति वसुधा, अधिकं पाति इति अधिपः, वसुधाया अधिपः वसुधाधिपः। प्रशस्तम् मनः अस्या अस्ति इति मनस्विनी, तया मनस्विन्या। कलत्रम् अस्य अस्ति इति कलत्रवान् तम् कलत्रवन्तम् ।
अभि०-राज्ञो दिलीपस्य, अनेकाः स्त्रियः आसन्, किन्तु स स्वचित्तानुवर्तिन्या सुदक्षिणया, राज्यश्रिया च स्वं भार्यावन्तं मेने ।
हिन्दी - चक्रवर्ती राजा दिलीप अनेक रानियों के होते हुए भी, पति की इच्छा का अनुसरण करनेवाली सुदक्षिणा और राज्यलक्ष्मी से ही अपने को स्त्री वाला मानते थे ॥३२॥
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः।
विलम्बितफलैः कालं स निनाय मनोरथैः॥३३॥ सञ्जीविनी--स राजा । आत्मानुरूपायर्या तस्याम् । आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः । तस्मिन्समुत्सुकः । यद्वा । आत्मनो जन्मनि पुत्ररूपेणोत्पत्ती समुत्सुकः सन् 'आत्मा व पुत्रनामासि' इति श्रुतेः । विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ॥३३॥
अन्वयः-स, आत्मानुरूपायां, तस्याम, आत्मजन्मसमुत्सुकर, 'सन्' विलम्बित. एला, मनोरथः, कालं, निनाय ।
बाच्य०--तेन, आत्मानुरूपायां तस्यामात्मजन्मसमुत्सुकेन, 'सता' बिलम्बितफलः, मनोरथैः कालो निन्ये ।
व्याख्या-सः= राजा दिलीपः, आत्मनः= स्वस्य, अनुरूपा= सदशी तस्यामात्मानुरूपायां, तस्यां सुदक्षिणायाम, आत्मनः=स्वस्मात्, जन्म = उत्पत्तिः यस्यासो, आत्मजन्मा=पुत्रः, तस्मिन् समुत्सुकः= उत्कण्ठितः, इति, आत्मजन्मसमुत्सुकः 'सन्' विलम्बितं = सञ्जातविलम्ब, फलं = पुत्रप्राप्तिरूपं येषान्ते तैः विलम्बितफलैः, मनोरथः = आशामिः= कदा मे पुत्रो भविष्यत्येवंरूपाभिरित्यर्थः। कालं = समयं, निनाय = यापयामास, नीतवानित्यर्थः ।
समा०-आत्मनः अनुरूपा आत्मानुरूपा तस्याम् आत्मानुरूपायाम् । वात्मनः