________________
प्रथमा सर्गः
तां वेलावप्रवलयां, परितः खातानि परिखाः अपरिखाः परिखाः सम्यद्यमानाः कृताः, इति परिखीकृताः= दुर्गवेष्टनीकृताः, सागराः= समुद्राा यस्याः सा, तां तथोक्ताम, अन्यस्य = अपरस्य =दिलीपभिन्नस्य, शासनं =शिक्षणं, रक्षणमिति, अन्यशासनं, न विद्यते अन्यशासनं यस्याः सा ताम्, अनन्यशासनाम्, उर्वी = पृथिवीम्, एका चासो पुरी चेति, एकपुरी तामेकपुरीम् = एकनगरीम्, इव=यथा, शशास=पालयामास, अप्रयासेव शासितवानित्यर्थः।।
समा०--वप्राणि एव वलयाः वप्रवलया:, वेलाः एव वप्रवलया। यस्याः सा वेलावप्रवलया ताम् वेलावप्रवलयाम्। परितः खातानि परिखाः, अपरिखाः परिखाः सम्पद्यमाना। कृताः इति परिखीकृताः, परिखीकृताः सागराः यस्याः सा परिखी. कृतसागरा ताम् परिखीकृतसागराम् । अन्यस्य शासनम् अन्यशासनम् न विद्यते अन्यशासनम् यस्याः सा अनन्यशासना ताम् अनन्यशासनाम् । एका च असी पुरी एकपुरी ताम् एकपुरीम् । ___ अमि.--राज्ञा दिलीपेन समुद्रान्तायाः पृथिव्याः शासनम्, परिश्रमं विनवकनगर्या रक्षणमिव चक्रे ।
हिन्दी-राजा दिलीप ने समुद्र के तटरूपी परकोटा वाली तथा सागररूपी 'चारों तरफ की खाई वाली, दूसरे राजाके शासन रहित सारी पृथिवी का शासन बिना परिश्रम इस प्रकार किया, जैसे कोई एक नगरी का शासन करता है ॥३०॥
तस्य दाक्षिण्यरूढेन नाम्ना मगंधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥३१॥ सञ्जीविनी-तस्य राज्ञो मगधवंशे जाता मगधवंशजा। 'सप्तम्यां जने:' इति डप्रत्ययः । एतेनाभिजात्यमुक्तम् । दाक्षिण्यं परच्छन्दानुवर्तनम् । 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु' इति शाश्वतः । तेन रूढं प्रसिद्धम् । तेन नाम्ना । अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव सुदक्षिणेति प्रसिद्धा पल्पासीत् । अत्र श्रुति:-'यज्ञो गन्धर्वस्तस्य दक्षिणाप्सरसः' इति । 'दक्षिणाया दाक्षिण्यं नामत्विजो दक्षिणत्वप्रापकत्वम् । ते दक्षन्ते दक्षिणां प्रतिगृह्य' इति च ॥३१॥ __ अन्वया-तस्य, मगषवंशजा, वाक्षिण्यरूढेन, नाम्ना, अध्वरस्य, दक्षिणा, पत्नी, इव, सुवक्षिषा, इति, 'पत्नी' मासीत् ।